पृष्ठम्:भरतकोशः-२.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीर्घ कृत्वा तत्परं च पुनरप्यवरोहणात्। तं प्रोग्य तस्मादागत्य ग्रहे न्यासः क्रियेत चेत् । तथा प्रथममञ्जयाः स्वस्थानं प्रथम भवेत्। । वैशेष्वस्या द्वितीयस्तु स्वरः स्थायितया स्मृतः । अनन्तरं......नाम्रा प्रथममञ्जरी । गान्धारमन्द्रा तारा च धैवतर्षभयोस्तदा । शेषेष्वल्पत्वसंयुक्ता गीतशैरभिधीयते । त्यक्तर्षभेण...तारनादा मन्द्रध्वनिः प्रथमञ्जरिकाविलापा ।। षाडवारिषभत्यागा मपांशाथ गमोत्कटा। पग्रहन्यासांशका प्रथममञ्जरी । –भाषाङ्गरागः (वीणायां वादनक्रमः) स्थायिनं पञ्चमं मन्द्रं कृत्वा तेन सह क्रमात्। स्वरानारुह्य षटू तेषां स्वराणामवरोहणे तृतीयं तु विलम्ब्याथ कम्पयित्वा तुरीयकम्। स्थायिन्यस्या यदा न्यांसः तदा प्रथममञ्जरी । गान्धारस्तु ग्रहो मन्द्रः तस्या लक्ष्येषु दृश्यते ॥ पञ्चमांशग्रहन्यसां धनितारां गमोत्कटाम् रिवर्जिताममन्द्रां च प्राहुः प्रथमञ्जरीम् । गान्धारमध्यमानल्पा,धैवतर्षभतारयुक् गेया शरदि शृङ्गारे गमन्द्रपूर्णतान्विता। मध्यमांशेन मिल्य(?)न्ये तथा गीतेषु दर्शनात् । नान्य मतङ्गः ३८८ वेमः | अत्र पञ्चमो यहांशन्यास इत्यन्ये । पञ्चग्रहवत्वादुत्सचे विनि योगः । माधववाक्यं लेखदुष्टम् | गमन्द्रा धरितारा च ग्रहांशन्यासपञ्चमा। गमध्यमाल्पशेषा च प्रोक्ता प्रथममञ्जरी । पश्चमादिर्यतस्तस्मात् उत्सचे विनियुज्यते । पांशप्रहान्ता गदिता गमन्द्रा गान्धारमध्योत्कटतांल्पशेषा कारुण्यगेया धरितारकाया सा मञ्जरी स्यात्प्रथमादिशब्दा। पञ्चमांशग्रहन्यासा धरितारा गोत्कटा । शृङ्गारे चोत्सवे गेया प्रातः प्रथममञ्जरी ।। पञ्चमांशाग्रहन्यासा धरितारा गमोत्कटा । गमन्द्रा चोत्सवे गेया तज्झैः प्रथमभञ्जरी ॥ त्रिपञ्चमात्र भाषायां ज्ञेया प्रथममञ्जरी । प्रदशमुकुलहस्तः प्रथमञ्जरीरागध्यानम् वियोगिनी कान्तवितीर्णपुष्प स्रजं वहन्ती वपुषातिमुग्धा। आश्वासमाना प्रियया च सख्या वेिधूसराङ्गा फलमञ्जरीयम्।। प्रथममण्ठः-देशीतालः गुरुर्दूतः पुतो यत्र मण्ठे प्रथमसंज्ञके । मुकुलार्थे कनिष्ठापि किञ्चिद्वक्रितभाग्यदि नाम्रा प्रदेशमुकुछी योज्योऽयं साऽसार्धके । प्रदेशः पृष्ठदेशः । जगदेक प्रदीपः-देशीताल प्रदीपके गुरू लपौ ऽ ऽ।ऽऽ मदनः प्रदीपानेिशिखा-कला शिरसमाधाय विलासकानां त्रये कराम्भोजधृते हि यत्र । चक्रेण या भ्रामयते पदाभ्यां प्रोक्ता प्रदीपमिशिखेति नान्ना॥ दामोदरः