पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७६ ब्राह्मस्फुटसिद्धान्ते अब अन्य प्रश्न को कहते हैं । हिं. भा.-सूर्य और चन्द्र का जो अंशशेष वा विकलाशेष बुधदिन में देखा गया वही चन्द्रदिन में कब होता है इसका उत्तर जो जानते हैं वे कुट्टक के पण्डित है । इति । उपपत्ति । ‘इष्ट भगणादिशेषात् स्वकुट्टकगुणात्' इत्यादि १२ सूत्र से स्फुट है इति ॥१७॥ इदानीमन्यं प्रश्नमाह । तिथिमान दिनेष्विष्टा ये ऽकर्काद्यास्ते पुनः कदा तेषु । इष्टगृहवारेषु यः कथयति कुट्टकज्ञः सः ॥ १८ ॥ सु. भा.-तिथिमानदिनेषु चान्द्रसौरसावनदिनेष्वर्थादुद्दिष्टाहर्गणे येऽभीष्टा अकर्काद्यास्त एव पुनः कदेष्टग्रहवारेषु तेषु चान्द्रसौरसावनदिनेषु भवन्ति । इति यः कथयति स एव कुट्टकज्ञ इत्यहं मन्ये । यस्मिन्नहर्गणे येऽभीष्टा गृहा आगतास्तत्समा एव कदेष्टवारेऽन्यस्मिन्नहर्गशे ते भवन्तीति प्रश्नः । अस्योत्तर च १२ सूत्रेण स्फुटम् ॥ १८ ॥ वि. भा.-तिथिमानदिनेषु (चान्द्रसौरसावनदिनेष्वर्थादुद्दिष्टाहर्गणै ) ये इष्टा रव्यादयस्त एव पुनःकर्देष्टग्रहवारेषु चान्द्रसौरसावनदिनेषु भवन्तीत्य थर्थाद्यस्मिन्नहर्गणे ये ऽभीष्टा गुहा समागतास्तत्तुल्या एव कदैष्टवारे ऽन्यस्मिन्न हर्गणे ते भवन्तीति यः कथयति सः कुट्टकपण्डितोऽस्तीति । ‘इष्टभगणादिशेषादि'. त्यादि १२ सूत्रेणाऽस्योपपत्तिः स्फुटैवास्तीति ॥ १८ ॥ अब अन्य प्रश्नों को कहते हैं। हेि. भा.-चान्द्र सौर सावन दिनों में अर्थात् उद्दिष्टाहर्गण में जो इष्ट रवि आदि ग्रह हैं वही पुनः कब इष्टग्रह वारों में उन चान्द्र सौर सावन दिनों में होते हैं अर्थात् जिस अहर्गण में जो अभीष्टग्रह आये हैं उनके बराबर ही कब इष्टवार में अन्य अहर्गण में वे होते हैं यह प्रश्न है इसको जो कहते हैं वे कुट्टक के पण्डित है। इसकी उपपत्ति ‘इष्ट भगणादि शेषात्' इत्यादि १२ सूत्र से स्पष्ट ही है इति ।। १८ ।। इदानीं बालावबोधार्थ पूर्वप्रश्नोत्तरं कथयति । इष्टभगणादिशेषाद् द्यगणस्तत् कुट्टकेन संयुक्तः । तच्छेददिनैस्तावद्दिनवारो यावदिष्टः स्यात् ॥ १९ ॥