ब्राह्मस्फुटसिद्धान्ते हरेण भक्तः शुध्यति स राशिः कः । प्रथमं गुणहरयोर्महत्तमापवर्तनमानीयते । परस्पर भक्तयोगुणहरयोरन्ते यच्छेषं तेन भक्तौ तौ (गुणहरौ भवतः) दृढ़ौ गुण हरौ भवतः । ततो दृढ़योगुणहरयोः परस्परं भक्तयोर्लब्धान्यधोऽधः स्थाप्यानि, पूर्वप्रदर्शिातकुट्टकनियमेन । इदं कर्म तावत्पर्यन्तं कर्तव्यं यावदन्ते रूपं शेषं तिष्ठेत् । तच्छेषं तथा केनापि गुणकेन गुणितं रूपेण हीनं तच्छेषसम्बन्धिहरेण भक्त शुध्यति । सत्येवं गुणकः पूर्वाधोऽधः स्थापितकलानामधः स्थाप्यः, तदन्तात्फल स्थाप्यम् । एवं जातायां वल्यां उपान्तिमेन स्वाध्व गुणितोऽन्त्येन युत इति कुट्टक विधिना शेषान्तं यावत्कर्म कर्तव्यम् । तत् दृढ़भागहारेण (दृढ़हरेण) भक्त शेषमेव स्थिरकुट्टको भवतीति । अथ महत्तमापवर्तनार्थ कल्प्यते । भाज्यः=य ।. भाजकः=क, भाजकेन भक्तभाज्ये लब्धं= न शेषम्=प । पुनः प अनेन स्वहारे क भक्त लब्धं=ल, शेषम्=ह, पुनरनेन शेषेण स्वहारे प भक्त लब्ध=र, शेषम्=० तदाऽवश्यमेव य, क माने ह अनेन निः शेषौ भवेताम् । हरलब्ध्योघतः शेषयुतो भाज्यसभी भवतीति तेन. य=क. न+-प । क=प. ल+ह। प=ह. र एतत् समीकरणत्रयाव लोकनेन स्फुटमवसीयते यत् प अयं ह अनेन निः शेषः स्यात् । ततः क अयमपि तेनैव निः शेषो भवेत् । एवं क, प अनयोनिःशेषत्वात् य अयमपि ह अनेन निः शेषो भवेदेवेति । एतावता 'हृतयोः परस्पर यच्छेषं गुणकार भागहारकयो' रित्या चार्योक्तमुपपन्नम् । सिद्धान्तशेखरे “परस्पर भाजितयोस्तु शेषकं तयोद्वयोरप्यप वर्तनं भवेत् । तदुद्धतच्छेदविभाजकौ क्रमादभीष्टनिघ्नौ तु गुणाप्तयोः क्षिपेत् श्रीपत्युक्तमिदमाचार्योक्तानुरूपमेवास्ति, तथा लीलावत्यां “परस्पर भाजितयोर्य योर्यः शेषस्तयोः स्यादपवर्तनं सः तेनापवत्र्तेन विभाजितौ यौ तौ भाज्यहारौ दृढ़संज्ञकौ स्तः ।' इति भास्करोक्तमपि-प्राचीयक्तानुरूपमेवास्ति । प्राचार्येणात्र रूपशुद्धौ गुणक एव साधितोऽतोऽत्राधरराशिरेवाग्रान्तो दृढ़भागहारेण भक्त इति ॥९-११॥ कोलबू कानुवादानुसारेण प्रश्नरूपार्यायास्त्रटिरस्ति सा च ‘भगणादिशेष तोऽर्कस्यान्येषां वा दिवा गणार्थ त्वम् । स्थिरकुट्टकं प्रचक्ष्व कुट्टार्णवपारगोऽसि यदि' ,॥१४॥ एवं भवितुमर्हति । अथ स्थिर कुट्टक को कहते हैं। हेि. मा.–जिस राशि को किसी उद्दिष्ट गुणक से गुणाकर एक धटा कर उद्दिष्ट हर से भाग देने से शुद्ध होता है वह राशि क्या है। पहले गुणक और हर का महत्तमाप वर्तन लाते हैं। परस्पर गुणक और हर को भाग देने से अन्त में जो शेष रहता है उससे
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/७१
दिखावट