पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है ॥८॥ कुट्टकाध्यायः “भगणादि शेषमग्र छेदहृतं खं च दिनजशेषहृतम्’ इत्यादि की उपपति देखने से स्फुट इदानीं स्थिरकुट्टकमाह । हृतयोः परस्परं यच्छेषं गुणकारभागहारकयोः । तेन हृतौ निश्छेदौ तावेव परस्परं हृतयोः ॥९॥ लब्धमधोऽधः स्थाप्यं तथेष्टगुणकारसङ गुण शेषम् । शुध्यति यथैकहीनं गुणकः स्थाप्यः फलं चान्त्यात् ।।१०।। अग्रान्तमुपान्त्येन स्वोध्व गुणितोऽन्त्यसंयुतोभक्तम् । निःशेषभागहारेणैवं स्थिरकुट्टके शेषम् ॥११॥ सु. भा-यो राशिः केनचिदुद्दिष्टेन गुणकेन गुणित एकहीन उद्दिष्टभाग हारेण भक्तः शुध्यति स क इति प्रश्नोत्तरार्थं प्रथमं गुणभागहारयोर्महत्तमा पवर्तनमानीयते । परस्परं हृतयोर्गुणकारभागहारकयोरन्ते यच्छेषं तेन हृतौ तौ गुणभागहारौ निश्छेदौ दृढ़ौ भवत इति । ततस्तयोढयोर्गुणभागहारयोः परस्पर हृतयोर्लब्धमधोऽधः स्थाप्यं पूर्वप्रतिपादितकुट्टाकारविधिना । एवमिदं कर्म यथे च्छशेषपर्यन्तं कर्तव्यम् । ततस्तच्छेषं तथा केनापीष्टगुणकारेण गुणितं रूपेण हीनं तच्छेषसम्बन्धिच्छेदेन हृतं यथा शुध्यति । एवं सतीष्टगुणकारः पूर्वाधोऽधः स्थापित फलानामधः स्थाप्यस्तदन्त्याच फलं स्थाप्यम् । एवं सम्पन्नायां वल्ल्यामुपान्त्येन स्वोध्व गुणितोऽन्त्येन संयुत एवं कुट्टाकारविधिनैवागूान्तं कर्म कर्तव्यम् । तत् निःशेषभागहारेण दृढभागहारेण भक्त शेषमेवं स्थरकुट्टकां भवतात । अत्र प्रथम गुणकारेण भागहारो विभाज्यः । अत्रोपपत्तिः । ‘परस्पर भाजितयोर्ययोर्यः शेषस्तयोः स्यादपवर्तनं स : इत्यादि भास्करविधिना स्फुटा इहाचार्येण रूपबिशुद्धौ गुण एव साधितोऽतो ऽत्राधरराशिरेवागूान्तो दृढभागाहारेण तष्ट इति सर्व भास्करकुट्टकप्रकरणेन स्फुटम् ।। ९-११ ।। अत्रकोलबू कानुवादानुसारेण प्रश्नरूपाययास्त्रुटिः सा च । (भगणादिशेषतोऽर्कस्यान्येषां वा दिवागणार्थं त्वम् । स्थिरकुट्टक प्रचक्ष्व कुट्टार्णव पारगोऽसि यदि ।। १४।।) एवं भवितुमर्हति । वि. भा-यो राशिः केनचिदुद्दिष्टेन गुणकेन गुणितः, एकहीनः, उद्दिष्ट