सामग्री पर जाएँ

पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १६४७ वास०–क्षितिजमण्डले अग्रा प्राच्यपरा सममण्डलं स्वाहोरात्रं स्वाहो- रात्रार्धवृत्तांतयोरंतरं ये तु त्रयोंशाः तेषामंशानां या ज्या साग्रत्युच्यते । यतस्तदग्रे ग्रहोदयास्तमयौ भवत इत्यर्थः। सममंडलादुत्तरतो दक्षिणतो वा क्षितिजे यत्र ग्रहहोदयस्तत्र सूत्रस्यैकमग्र बद्ध्वा द्वितीयमग्र' सममण्डलादन्यस्यां दिशि तावत्येवांतरे बध्नीयाद्दक्षिणोत्तरायतं क्षितिज एव तदर्धमग्रा सा च निरक्षे क्रान्तितुल्या साक्षादेशे क्रमेणोपचीयते । तावद्यावद्यत्र षट्षष्टिरक्षां- शस्तत्र त्रिज्या तुल्या भवतीत्येतगोले प्रदर्शयेत् । शैकुछाया कालानां प्रदर्शनार्थमाह- स्वाहोरात्रे क्षितिजाद्दिनगतशेषोच्चता रवेः शंकुः । तस्माद्दिनगतशेषं शङ कुसुमध्यान्तरं दृग्ज्या ॥६२॥ वास०-- स्वाहोरात्रे स्वाहोरात्रार्धवृत्ते क्षितिजा --“र्थः । दिनगतस्य शेष स्य वा यावत्युच्चता वा सा दिनगतिशेषोच्चता रवेः रविग्रहणम्--~~न्यास्यापि ग्रहस्य स्चाहोरात्रार्धवृत्तेषु दिनगतशेष योज्ययोश्च योज्यम् । यावदुच्चMadhava char n (सम्भाषणम्) ०८:५२, ४ अक्तूबर २०१७ (UTC)तस्मा द्दिनगतशेषं तस्माच्छुक्र: दिनगतः शेपं यथा दिनगत शेघाल्पस्याह्न इत्यादि नीनः ततश्छंकुरानीतः। ततश्छाया एवं छायाकर्णाविभक्ता विषुवत्कर्णेन संगुणः त्रिज्येत्यादिना काMadhava char n (सम्भाषणम्)नीयते इत्यर्थः। यत उभयोरप्येकैव वासना अतः पृथक् नोक्ता दृग्ज्या तु पुनः शंकुकुमध्यांतरं । शंकुमूलस्य भूमध्यस्य यदंतरं सा दृग्ज्या तस्य शंकोः सा छाया एतद्गोले प्रदर्शयेत् । तद्यथा स्वाहोरात्रार्धवृत्ते घटिकाचिह्निते यावरयो दिनघटिकाविघंटिकाश्च गतास्तावति प्रदेशे रव्युपलक्षते चिह्न कार्यम् । तत्र सूत्रं बद्ध्वालंबयेत् गुरुणाग्रहबद्धन केनचिल्लोष्टादिना ततो भूमध्यादन्यदवलंबकसूत्रस्पृक् सूत्रं नीत्वा क्षितिजे बध्नीयात् । एवं स्थिते ग्रह चिह्नित प्रदेशे क्षितिजयोरंतरसूत्रप्रमाणाच्छंकः शंकुमूलाच्च भूगोलमध्यं याव- तावत्प्रमाणा दृग्ज्या भूमध्यग्रहचिह्नितप्रदेशांतरं कर्णव्यासार्धतुल्यः एवं सर्वत्र योज्यम् । वयं च तत्र व प्रयात्यायसूत्र वासनां प्रतिपादयिष्याम इति दृङ्मण्ले शंकुदृग्ज्ययोः प्रतिपादनसूत्रमाह दृङ,मण्डले नतशज्या दृग्ज्या शंकुरुन्नतांशज्या । वास०-दृङ्मण्डले पूर्वप्रर्दशितया नतभागानां ज्या सा दृग्ज्या या तु पुनरुन्नतभागानां ज्या सा शंकुः भवति। एतच्च गोले प्रदर्शयेत् । यतो ग्रहोपलक्षित प्रदेशे स्वाहोराश्रदृझ्ण्डयोः सर्वदैव संपातो भवत्यास्मात्प्रदेश क्षितिजं यावदुन्नत भागा दृङ,मण्डल' स्योपरि सममण्डलमध्यं यावनता तस्मादुपपन्नं मध्याह्नऽपि दृङमण्डलत्र तज्या शंकुः न तज्या दृग्ज्या अत एवोन्मण्भंडल नतज्या क्रमेण क्रियत इति । शंकुतलप्रदर्शनार्थमाह