पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४६ ब्राह्मस्फुटसिद्धान्तः विपरीतं यद्धनुषस्तन्मकरस्य यवृश्चिकस्य तत्कुम्भस्य यत्तुलायास्तन्मीनस्येत्यर्थः । स्वाहोरात्रान्येषां वृत्तानां व्यासाः पृथगेव शिष्टमपि । यथां मेषादीनां स्वाहोरात्र व्यासतुल्यनि वृत्तानि स्वक्रान्त्यग्रेषु प्रदर्शितानि । एवं स्वाहोरात्र प्रमाणेना भीष्टस्य ग्रहादेः स्वक्रांत्यग्रात्स्वाहोरात्रवृत्तं बध्नीयादित्यर्थः । स्वाहोरात्रवृत्तानि कक्षागोले बध्नीयादित्यर्थः, न खगोले एतच्चास्माभि: पूर्वमेव व्याख्यातम् । स्वाहो रात्रवृत्ते दिनगतशेषादयः प्रदश्य गोले । इदानीं त्रिप्रश्नाध्यायवासना प्रदश्यते । तद्यथा निरक्षदेशे भपंजरः सम एवावतिष्ठते । तत्रराश्युदयात्किमिति भिन्ना। तदुपपत्त्यर्थमार्याद्वयमाह- लङ्कसमपश्चिमगं प्राणेन कलां भमण्डलं भ्रमति अपमण्डलस्य राशिद्वादशभागः क्षितिजलग्नात् ॥५e॥ यान्त्युदयं मेषाद्या यतस्तदुदया न कालसमाः । क्रान्तिवशालंकायां तद्नताधिक्यमक्षवशात् ॥६०॥ वास०–लकाग्रहणं निरक्षदेशोपलक्षणार्थं लंकायाः समपश्चिमगं निरक्षदेश उपर्यधोगमित्यर्थः। किं तत् भमण्डल’ ••क्षMadhava char n (सम्भाषणम्) ०८:५२, ४ अक्तूबर २०१७ (UTC)विषुवन्मण्डलमित्यर्थः । प्राणेन कलां भमण्डल भ्रमति । प्राणतुल्येन कालेन यस्य मण्डल ••~~भ्रमति । उन्मण्डलं तत् । न तदपमण्डलम् । रविस्तु पुनरपमण्डलस्य द्वादशभागः राशयः••~~क्षितिज- लग्ना उदयं यांति । यतो यस्मात्ततस्तस्मात्तेषामुदयास्तदुदयाः न कालसमाः --“काल समान भवंति तस्माद्धतोः क्रांतिवशाद्यतो विषुमंडलापमडलयोरंत •••‘क्रांतिः त•• दपमण्डलं च तिर्यग्भवति । यदि विषुवन्मन्डले राशयः स्यु- स्तत्पंचघटिका राश्युदया अपि भवेयुः । निरक्षे वा साक्षे देशे वायावच्चापमण्डले राशयः तच्चापमण्डलं लंकायामपि तिर्यक् स्थितं क्रांतिवशादस्तत्रापि तदूदनता चिक्य तेषां मेषादीनां न्यूनाधिकता सम्भवति । स्वदेशे तु पुरक्षवशात्तद्नतधिक्यं भवत्येवं किमत्रोच्यते । निरक्षदेशे साक्षे चगोले सर्वं प्रदर्शयेत् । अक्षवशादित्येतदु सम्बन्धं भविष्यतीति । चरप्रदर्शनार्थमार्यार्थंमाह क्षितिजोन्मण्डलयोरेंत्स्वाहोरात्रांतरं चरबलं तत्। वास०–क्षितिजं चोन्मण्डलं च क्षितिजोन्मण्डले तयोरंतरं यत्स्वाहोरात्र वृत्ते तत्स्वदेशाक्षोन्नतिवशाच्चरदलं यतो . निरक्षदेशक्षितिजोन्मण्डलयोरंतरं नास्त्ये- कत्वात्तत्र चरदलमपि नास्ति, सर्वदा तेन तुल्ये दिन रात्रिप्रमाणे ऽन्यत्राक्षवश दुन्मण्डलमुन्नतं नतं भवति । स्वाहोरात्रस्याक्षादधिकमूनं वा दृश्यते । अतः तत्रा- क्षवशादुपपद्यते क्षयाधिके । सर्वे गोले प्रदर्शयेत् । इदानीमग्राप्रदर्शनार्थमाह-- क्षितिजेग्रा प्राच्यपरा स्वाहोरात्रांतरज्या ॥६१n