पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५४५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१६३४ ब्राह्मस्फुटसिद्धान्तः कालं स्यात् । एवं मन्दकर्माणि सर्वग्रहाणां ततः स्वस्थानाच्छीघनीचोच्चवृत्तं प्रतिलोमकक्षामण्डलपरिधिममुचतुसंध्यै यथा गच्छति तथानीय कक्षामण्डले मन्दफलसिद्ध प्रदेशे तन्मध्यं निदध्यात् । एवं स्थिते शघनीचोच्चवृत्तं प्रदर्शयेत् । तथा स्थितस्य शीघनीचोच्चवृत्तस्य यत्र परिमण्डलेन सह संतापः स्वोच्च प्रदेशादपरतो नीचोच्चवृत्ताच्च पूर्वतः तत्र ग्रहः पारमाथिकः यतः प्रतिमण्डले परिधौ मध्यम भुक्तस्फुट ग्रहो भ्रमतीति ततः प्रतिमण्डलभुजकोटि ज्ये कत्वा ग्रहो भ्रमति, स्फुटगत्युत्तरे आचार्येणौक्त प्रतिमण्डलस्य त्रं राशिकेन नीचोच्व वृत्ते परिणमय्य । ततः कोटिफलयुता त्रिज्येति वासनया स्फुटकर्तामानीयो क्तवदुग्रहफलं कार्यम् । कक्षामण्डले एवं कृते दृक्तमो ग्रहो भवति । क्षयधनोप- पत्तेश्च खेमं दोच्चनीचोच्चवृत्तशलाकया कक्षामण्डले यः प्रदेश स्पष्टस्तत्र मध्यमो ग्रहः तद्वृत्तेन च प्रतिमण्डलपरिचिः यत्र स्पष्टः तत्र पारमाथिको रविः। यतो मन्दप्रतिमण्डलोच्चरेखया यत्र प्रदेशे कक्षामण्डलं स्पष्टं तस्मादारभ्य नीचोच्चवृत्त शलाका स्पष्टदेशं यावद्यावंतो भागादयस्तावंत एव प्रतिमण्डलोच्च प्रदेशात्तत्परिधि नीचोच्चोवृत्तपरिचि संपातं यावत् । अतः स्फुटग्रहाद्य सूत्र भूमध्यान् प्रति प्रसार्य ते । तन्मध्यग्रहात्प्रथमे पदे पश्चिमेन याति, तत्रस्थं रवीन्द्वोः भूस्थो द्रष्टा पश्यत्यतः प्रथमे प्रतिमण्डले केन्द्रपदं तदंतरं विशोध्य । यतस्तत्रो परिप्रतिमण्डल कक्षामण्डलात्तृतीये तु विपरीतं कक्षामण्डल स्योपरि स्थितत्वात् । द्वितीये च वासना । प्रथमवदधेचक्रात् विशोध्य यतो भुजकोटिज्ये चतुर्थे पदे तृतीयवच्चक्रार्धाशेषस्य यतो भुजकोटिज्ये, एवं चन्द्रस्यापि यथोपदृष्टंवृतैः सर्वे प्रदर्शयेत् । भौमादीनां पुनर्मेदकर्मणा यः प्रदेशः सिद्धो भवति । कक्षामण्डले तत्रशीघ्र नीचोच्चवृत्तमध्यं कृत्वा शेषं प्रदर्शयेत् । तत्र प्रथमे प्रतिमण्डल पदे धनं भवति, प्रतिमण्डलोच्चत्वं यतः पुरतस्तिष्ठति, अतः शेष पदेष्वपि वैपरीत्यं योज्यम् । मन्दवासना तु मन्दकर्माणि युक्ता केवलमुच्यते । एवं तत्त्वतो गणिते तु कक्षामण्डलाअयमेव केन्द्रःतत्र च राशित्रये परमफलमागच्छति, युक्ता च नोपपद्यते, शीघ्रफलतुल्यवासनत्वात् । स्वल्पांतरत्वात्तु तथा न कृतमित्युक्त शीघ्रफले तु कक्षामण्डल पदं व्यवस्थापयित ऋणधन रूपं प्रतिमण्डल पदं प्राप्तं यावत्स्वतः एव वधंते ताभ्यांतरत्वात् । प्रतिमण्डलभुजकोटिज्ये दशते यथा न्यस्तवृत्तेषु सर्वे दशैमान स्वयमेवावगम्यते । मन्दकर्माणि प्रतिलोम मन्दनीचो चवृत्तपरिधिकेन्द्र भगणभोगेन ग्रहः पूरयति शीघ्र कर्माणि चानुलोमे न शीघ्रनीचोच्चवृत्तपरिधिः केन्द्रभगणभोगेन प्रहः पुंजियति । शीघ्रकर्माणि वानु- लमेन शीघचोच्चवृत्तपरिघिकेन्द्रभगण भोगेन ग्रहः पूरयत्यतः सर्वं एवोदया स्तमयचक्रात्तु चक्रादयः प्रदश्यः । यदा रविसमसूत्रस्थो ग्रहः स्थितः तदापर मास्तमयप्रदेशात्प्रवेशनिर्गमौ स्वकालांशैर्योज्यौ । अर्धचक्रांतरितश्च परमे वक्र ग्रहो यतः शीघनीचोच्चवृत्तपरिचिवाधोवती भवत्यानुलोम्येन । तत्र प्राग्गति