पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १६३३ फलं शीत्रे इति मन्दकर्माण्यपि स्फुटकरौन फलानयनं युक्त चात्राचार्येणोक्तमेतदा- शंक्य परिहारार्थमार्यामाह त्रिज्याभक्तः कर्णः परिधिगुणो बाहुकोटि गुणकारः। असकृन्मांदे तत्फलमाद्यसमं नात्र कर्णाऽस्मात् ॥२६॥ वास०-त्रिज्याभक्तः कोऽसौ कणं इति किं भूत इत्याहपरिचिगुणः कि भवति बाहुकोटि गुणकार- मन्दप्रतिमण्डलप्रदेशे स्फुटपरिधिर्भवतीत्यर्थः। असकृन्मांदे मन्दकर्म णि तत्फलमाद्यसम मध्यपरिधिकृतफलतुल्यमत्र राशि कद्वये यदि व्यासार्धमॉडलस्यार्ध मन्दपरिचि: स्फुटकणं. मण्डलस्य कइति ततो लघु स्फुटपरिधिः तेन फलमानीय । ततो द्वितीयं यदि स्फुटकर्णप्रदेशे एतावत्फलं कक्षामण्डलप्रदेशे कियदित्यत्र प्रथमत्र राशिके व्यासधी भागहारो द्वितीये गुणकारः स्फुटकर्णाऽपि प्रथमे गुणकारो द्वितीये भागहाः एवं सर्वेष्वेव नष्टेषु मध्यमपरिधिरेव गुणकारो भुजकोटिज्ययोः स्थित इत्यस्मात्कारणन्मंदकर्मणि कणं मया न कृत इति । तद्यथोक्तवत्कक्षामंडलमंदप्रतिमण्डलशीघ्रप्रतिमण्डलानां विनशं कृत्वा ततो नीचोच्चवृत्ते स्वे स्वे स्थाने कक्षामण्डले च विन्यस्य ग्रह स्फुटीकरणवासना प्रदश्यं मेषादेरारभ्य यत्र राशौ भागे लिप्तायां ग्रहो व ते तत्र चिह्न कार्यम् । ततो मंदोच्चप्रदेशान्मंदनीचोच्ववृत्तग्रहाभिमुखं नयेत् । तथा च नयेद्यथा तवृत्तमध्यं कक्षामण्डलपरिधिममु' च गत्वा ग्रहचिह्नित प्रदेशेति । तत्र स्थितस्य नीचोच्चवृत्तस्त तदुपरि केन्द्ररेखातस्यपरिधिश्च पूर्व णोच्चाद्यत्र संपातस्तत्र मन्दफलस्फुटोग्रहस्तत्र च तुल्या एव राशिभगणादयो भवंति । नीचोच्चवृत परिधिप्रतिमण्डलयोः प्रतिलोमानुलमोकृतो विशेषः तावदेव ग्रहोच्चांतरं प्रतिमण्डले केन्द्र भवति । तत आचे पदे भुक्तस्य भुजज्याभोग्यस्य कोटिज्या यतः प्रतिमण्डलोच्चापेक्षया सर्वदैव दक्षिणोत्तरा भुजज्या। प्राच्यपरा कोटिज्या भवति- छेद्यको द्वितीय च पदे च विपरीतं प्रथमवत्तृतीये द्वितीय चतुर्थे यतोर्धचक्राच्चक्राच्च शेषभागानां भुजज्या भवति द्वितीयचतुर्थयोरेवं प्रति मण्डल भुजाकोटिज्ये निष्पन्ने त्र राशिकेन नीचोच्चवृत्तेन कियत्याविति पृथग्भुजकोटि फले भबतः इष्टवृत्त इत्यर्थः । एवं स्थिते कोटिफलयुता त्रिज्या पदयोरित्यादिना स्फुटकर्णः प्राप्तः । तेन च शीघकर्मवत्फलानयने प्राप्ते भुजफलमेवाचार्येण ग्रहफलमभिहितं तद्दोष परिहारा ये मयाचार्येण प्रणीता यतः प्रतिमण्डलानु सारेण परिधिः तेन प्रतिमण्डलभुजज्यागुणायितं युज्यते च परिधिरसकृ स त्स्फुटकर्ण त्र राशिकेन परिणमति । तत्कृतं फलं च पुनस् राशिकेन व्यासार्धेन परिणमत्यतः कक्षामण्डल परिधिनैव यद्भुजफलचापं तदेव ग्रहमन्दफलं भवति । मन्दस्फुटार्घ एव चन्द्राक पारमार्थिकौ दृक्समौ भवतः, भौमादीनां पुनर्मदस्फुट- ग्रहशब्देन नीचोच्चवृत्तमध्यमुच्यते । अन्यथा स्थानद्वये प्रहसम्भव एव तुल्य