सामग्री पर जाएँ

पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२२ ब्राह्मस्फुटसिद्धान्तः परिधियोजनानि, वल्पे च ग्रहाणां गतियोजनानि । एतावंति वक्ष्यत्येकंकस्य नत्वनतस्य कालगस्य कथमुच्यते नियतपरिधिः, अत्र केचिद्दिनकरकरनिकरविधू स्ततमसो व्योम्नं परिधिरयं परतो निबिडमंधकारं यदस्माभिनीलमिवोलभ्यते । अपरे त्वंडस्य यस्य मध्ये सक्रको भूगोलात्मवत्स्थितस्तथायं परिधिस्तत्कोश च नीलमिवास्माकं प्रतिभाति, उभयथापि न कश्त्विप्रक्रियाविरोधः यतो भक क्ष्याया ऊध्र्वगतिनिरोध एव अत्रार्थे ग्रहणकमस्मदीयम् । द्विछिद्रषट्क्रबर तेऽत्र चन्द्रशैलाष्टरूपाणि गुणानि कोट्याः व्योम्नः सधाम्नः परिधि दंशध्रकल्पे ग्रहाणां सच योजनाध्वः यदुक्तवासिष्ठ सिद्धान्ते । जगदण्डखमध्यस्था महाभूतमयी क्षितिरित्यादिःतदण्डाभ्युपगमे घटत एव आर्यभट्टः शिष्यैश्च व्याख्यातं खपरिधि दशनद्वारेणार्करश्मिप्राप्तस्य नभसः प्रमाणं प्रदर्शितम् । भवत्याचार्येण ननु चेष्ट ग्रह स्वकक्ष्याभगणवधः षपरिधिरित्येतावतैव सिद्ध: शशिभगण इत्यादि पृथगौ रवकरणमस बद्धमिव नः प्रतिभाति । यतः शून्य खखजिनाग्नयश्चन्द्र कक्षा प्रमाणं नैष दोषो यतः खपरिघे रेव ग्रहकक्ष्या आनयिष्यति तदपरिज्ञाना तद्भगणवधः कथं शक्यते कतु सु, तत्तीह तुल्यं शशिकक्ष्या परिज्ञानेऽपि न तुल्यम् । अत्रोच्यते रविचन्द्रयोरन्येनैव प्रकारेण कक्ष्यानयनासिद्ध: कोसौ प्रकार इति तदुच्यताम्, तद्यथा चन्द्रयोगाच्चन्द्रबिंबं मध्यमं लिप्तागतं साधयेत् । तच्चोदयतोऽस्तमयतो वा बिबस्य कियंत्यो विनाडयः प्राणाश्च भवन्तीति चन्द्रभगण भोगं यावत्साधयेत् दिनं प्रतिदिनं स्वधिया स्वदिनोदयस्यैकत्र कृतस्य तदह्निश्च स्वैदिनैवभक्तस्याङ्गदिनोदयबिंवकालो मध्यमो भवति । सच प्राणी कृतः शशि मानमध्यमलिप्तो भवति, ताश्चाब्दा विंशतिशतम् । रवेरप्येवमेव समप्रदेशस्थस्य द्रष्टव्यम्, मानप्रसाधनं चन्द्रमसोर्योजनमानं च वक्ष्यति शुन्यघसुवेदा इति ४८८ ततो लिप्तामानेन योजनमानस्य भागे हते लब्धपंचदश ।१५। एतावंति योजनान्ये कैकस्याः कलायाः प्रमाणम् । चन्द्रकक्ष्या प्रदेशे कक्ष्या च सर्वस्य खखषट्कन संख्याः लिप्ताः, यतो लब्धवोऽल्पराश्याम् इति वक्ष्यति । तेन पंचदशगुणिताः खखषट्कन संख्याजानं प्रमाणं -योजनात्मकं । चन्द्रकक्ष्याया शून्यखखजिनाग्नयः। ३२४००० एवं रवेरपि यत उक्तम् । मानोदयाद्रवींद्वो घंटिकार्धमर्धन (भोक्ष्य) इति छायाध्याये त एवार्येण चन्द्रकक्ष्या मूलत्वेन सर्वकक्ष्याणामानयनमभिधातु शोभ नमारब्धम् । तत्रानि शेषत्वा गणितकर्मणः शेषग्रहाणां योजनमानानि न पठिता नि अत एवात्र खपरिधिद्वारेण सर्वमेव वक्तुमुद्यत आचार्यः भवतु नामेदृक् तया सिद्धया शशियोजनमानं सिद्धमेव तत्कक्ष्याभ्युपगमतुल्य अभ्युपगतमस्माभिश्च त्वात् न कश्चिद्विशेषः । सत्येवं यदप्युक्तमस्माभिः शशिभूयौगादस्तमयोदयकाले चन्द्रमानसाधनं तदपि मानुषमात्रेण ग्रहीतु न शक्यते विघटिककादिकोऽपि कालः किमुत प्रमाणावयवादिकः अस्माभिः प्रसंगेन वसुदर्शनं कृतं भुवश्च निम्नोन्नत त्वान्महाद्रिवनांतरितत्वाच्च । अशक्यं सर्वे किंवागम एव प्रमाणमस्माकं