पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


११४० ब्राह्मस्फुटसिद्धान्ते परिकल्प्यार्क बिन्दु तस्माद्वाहुं यथादिशं दत्त्वा । बाह्वागूत् प्राच्यपरां कोटिं तिर्यक् स्थितं कर्णम् ॥३॥ करणग्रि चन्द्रमसं परिलिख्य सितं प्रवेश्य करणेन । शशिबिम्बे शुक्लागूात् परिलेखसमेन सूत्रेण ॥४॥ कर्णभतिस्थे नैशेो शुक्ले परिलिख्य पश्चिमाभिमुखम् । राशिषु मेषतुलादिषु संशोध्य दिवाकरं चन्द्रात् ॥५॥ पूर्वाभिमुखं कर्कटमकरादिषु भवति शुक्लसंस्थानम् । एवं वा संस्थानं परिलिख्येन्दु प्रसाध्य दिशिः ॥६॥ पु. मा.-एकेनेष्टेन राशिना प्रथमं कोटिभुजकणनपवत्र्य भूमौ शुक्लकृष्ण पक्षयोः प्राच्यपरादिगभिमुखं लिखेत् । कथं लिखेदित्याह-परिकल्प्यार्क बिन्दु मिति-इष्टं बिन्दुमर्क परिकल्प्य तस्माद्यथादिशं बाहु बाह्वग्राद्यथादिशं प्राच्यपरां कोटिं तयोर्मध्ये तिर्यक् करणं च दत्त्वा कर्णाग्रे चन्द्रमसं परिलिख्य तत्र करणेन करणैमार्गेण शशिबिम्बे सितं शुक्लं प्रवेश्य दत्त्वा ततः शुक्लाग्रात् परिलेखसमेन सूत्रेण स्वभासमेन मानेन कणऽङ्कनं कृत्वा तत् केन्द्रात् स्वभया वृत्तं परिलिख्य कर्णगतिस्थे नैशे रात्रिसम्बन्धिनि शुक्ले शुक्लसंस्थानं भवति । शुक्लागू कस्यां दिशि कर्णसूत्रे दत्त्वा परिलेखं कुर्यादित्याशङ्कयाह राशिषु मेषतुलादिष्विति । चन्द्राद्दिवाकरं विशोध्य शेषं कार्यम् । मेषादिराशित्रये तुलादिराशित्रये च शेषे पश्चिमाभिमुखं कर्कटादिरराशित्रये मकररादिरराशित्रये च शेषे पूर्वाभिमुखं शुक्लं देयमिति । एवं वा संस्थानमित्यस्याग संबंधः । अत्रोपपत्तिः । ‘यद्याम्योदकतपनशशिनोरन्तरं सोऽत्र बाहुः’-इत्यादिना ‘सूत्रेण बिम्बमुडुपस्य षडङ्गुलेन'-इत्यादिना च भास्करविधानेन ज्ञेया । यदा ऽन्तरं राशित्रयाल्पं तदा शुक्लमानं च चन्द्रबिम्बाधदिल्पमतः शुक्लाङ गुलं पश्चिमाभिमुखं कर्णसूत्रे दत्त्वा तस्मात् स्वभासूत्रेण परिलेखवृत्ते कृते शुक्लेन्दु खण्डाकृतिरुत्पद्यते । यदा तदन्तरं तुलादित्रये तदा कृष्णं बिम्बाधदल्पं तद्वशेनापि पश्चिमाभिमुखं युक्तम् । एवं कर्कटादित्रयेऽपि कृष्णेन्दुखण्डाकृतिर्मकरादिषु च मासस्य तुर्यचरणे शुक्लश्शृङ्गोन्नतिरुत्पद्यते तत्र पूर्वाभिमुखं शुक्ल संस्थानं भवति । अत्र का का स्थलता वास्तवपरिलेखसाधनं च कथमित्येतदर्थ मत्कृता वास्तवचन्द्र शृङ्गोन्नतिद्रष्टव्या ।। २-६ ।। वि. भा-एकेनेष्टेन राशिना कोटिभुजकणनिपवत्र्य भूमौ शुक्लकृष्ण पक्षयोः पूर्वापरदिगभिमुखं लिखेत्, कथं लिखेदिति कथयति । इष्ट बिन्दुरविं परि कल्प्य तस्माद्भुजं दत्वा भुजाग्राब्रथा दिशं पूर्वोपरां कोटिं तयोर्मध्ये तिर्यक् कर्णच दत्वा कर्णाग्रे चन्द्रबिम्बं विलिख्य तत्र कर्णमार्गेण चन्द्रबिम्बे शुक्लं दत्वा शुक्ला