पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गोन्नत्युत्तराध्याय स्या सम्बन्धः । ग्रात् परिलेखतुल्येन सूत्रेण (स्वभा) समेन मानेन करणेऽङ्कनं कृत्वा तत्केन्द्रात् स्वभया वृत्तं परिलिख्य कर्णगतिस्थे रात्रिसम्बन्धिनि शुक्ले शुक्ल संस्थानं भवति शुक्लाग्र कस्यां दिशि कर्णसूत्रे दत्वा परिलेखं कुर्यादित्याह। चन्द्रात्सूर्य विशोध्य शेष ग्राह्यम् । मेषादिराशित्रये तुलादिराशिन्नये व शेषे पश्चिमाभिमुखं कर्कटादिराशित्र ये मकरादिराशित्रये च शेषे पूर्वाभिमुखं शुक्लं देयमिति । एवं वा संस्थान मित्य ११४१ यदा रविचन्द्रयोरन्तरं राशित्रयाल्पं तदा शुक्लमानं च चन्द्र बिम्बाधदिल्पमत शुक्लाङ्गुलं कर्णसूत्रे पश्मिाभिमुखं दत्वा तस्मात् स्वभासूत्रेण परिलेखवृत्ते कृते शुक्लचद्र खण्डाकृतिजयिते । यदा तदन्तरंतुलादिराशित्रये तदा कृष्णं बिम्बाधदल्पं तद्वशेनापि पश्चिमाभिमुखं युक्तम् । एवं कर्कटादित्रयेऽपि कृष्णचन्द्रखण्डाकृति मकरादिषु मासस्य चतुर्थचरणे शुक्लश्रृंङ्गोन्नतिरुत्पद्यते तत्र पूर्वाभिमुखं शुक्ल संस्थानं भवतीति । सिद्धान्तशेखरे “आदशदरसोदरेऽवनितले बिन्दु प्रकल्योष्णगु स्वाशायां भुजमुत्तरेतरदिशं कोटिं तदग्रात्तत प्राकचन्द्रोऽपरदिङ्मखीमपरगे पूर्वायतां दापयेत् दोः कोट्यग्रगतां श्रुति शशिवपुः कोटिश्रवः संयुतौ । शुक्लं च श्रुति सूत्रगाम्यपरतः शुक्लेऽसिते पूर्वतः कृष्णं व्यत्ययतोऽल्पकेन कृतयोः कार्य परी लेखनम् । शुक्लाग्रात् परिलेखसूत्रविहिते वृत्तम्रमे जायते संस्थानं नभसः स्थले प्रतिदिशं चण्डीशचूड़ामणेः ॥” अस्यार्थ :-आनीतं शुक्लमानं शुक्लपक्षे पश्चिम ' मध्ये न्यूनपरिमाणेन परिलेखनं कार्यम् । शुक्लकृष्णयोर्मध्ये योऽल्पस्तेनैव शृङ्गोन्न तिज्ञानार्थ परिलेखः कर्तव्य इति । शुक्लाग्रात् परिलेखसूत्रेण कृते वृत्ते चन्द्रस्य प्रतिदिशमाकाशस्य संस्थानं भूमौ ज्ञायते । शिष्यधीवृद्धिद तन्त्रे “यचिह्न समभुवि भानुमान् स तस्मात् दातव्यः स्वदिशि भुजस्ततोऽपि कोटिः। प्रागिन्दावपरककुप्मुखी प्रतीच्यां प्रागग्रा दिनकरचिह्नतश्च कर्णः । श्रवणकोटियुतौ शशिमण्डलं श्रवणसूत्र मिहापरपूर्वकम् । झषवशेन च शेषदिशौ ततः खटिकया सुपरिस्फुटमालिखेत् ।। अपरतः श्रवणेन सितं नयेदसितमप्यसिते सितदीधितौ । धनददिग्भवदक्षिण दिग्भवैः परिधिभिर्जनयेच्च झषद्वयम् ॥ तिमिभवमुखपुच्छसक्तरज्ज्वोर्भवति च यत्र समागमः प्रदेशे । तत उडुपतिशुक्लचिन्हलग्नं समभिलिखेत् सितसिद्धये सुवृत्तम् ।।' लल्लोक्त प्रकार ईदृशोऽस्ति । सर्वेषां ब्रह्मगुप्त-लल्ल-श्रीपति-भास्करा चार्याणां शृङ्गोन्नति परिलेखः समान एव । सूर्य सिद्धान्ते “दत्वाऽर्क संज्ञितं बिन्दु ततो बाहु स्वदिङ्मुखम् । ततः पश्चान्मुखीं कोटिं कर्ण कोट्यग्रमध्यगम् ।। कोटिः कर्ण युताद्विन्दोबिम्बं तात्कालिकं लिखेत् । कर्णसूत्रेण दिक् सिद्धिं प्रथमं परिकल्प