पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२२ ब्राह्मस्फुटसिद्धान्ते वर्षादपि वर्षपर्यन्तकालेनापि शङ्कुच्छाये कययति स एव सूर्य वेत्तीति । अस्योत्तरं कोणशङ्करानयनेन स्फुटम् ॥१२॥ वि. भा–यो गणक इष्टदिने आग्नेये का नैऋत्ये कोणवृत्ते संस्थितस्यार्कस्य (रवेः ) शकच्छाये वर्षपर्यन्तकालेनापि कथयति स सूर्यं वेत्ति (जानाति, इति ॥ १२ ॥ अस्योत्तरार्थमुपपत्तिः सूर्यसिद्धांते । ‘त्रिज्यावर्गार्धतोऽग्राज्या वगनाद् द्वादशाहता । पुनर्दादश विघ्नाच्च लभ्यते यत् फलं बुधैः । शक वर्गार्धसंयुक्तविषुवद्वर्गभाजितात् । तदेव करणी नाम तां पृथक् स्थापयेद् बुधः । अर्कघ्नी विषुवच्छायाऽग्राज्यया गुणिता तथा। भक्ता फलाख्यं तद्वर्गेसंयुक्तकरणीपदम् ॥ फलेन हीनसंयुक्त दक्षिणोत्तर गोलयोः । याम्ययोविदिशोः शङ्करेव" इति कोणशङ्करानयनमस्ति । एतद्व्याख्या-त्रिज्यावर्गाचंव अग्राज्यावर्गहीनात्। शेषाद् द्वादशगुणात् पुनर्बादशगुणात् । द्वादशवर्गार्धसंयुक्त पलभावर्गेण भाजिताद्य फलं तदेव करणी नाम भवति । तां करणीं पृथगेकत्र स्थापयेत्, द्वादशगुणा पलभाऽग्रया गुणा तेनैव हरेण (द्वादशवर्गार्धसंयुक्त पलभावगैण) भक्ता लब्धं फलसंज्ञकम् । फलाख्यस्य वर्गेण संयुक्ता या करणी तत्पदं (वर्गमूलं) दक्षिणोत्तरगोलयोःक्रमेण फलाख्येन हीन संयुक्त कार्यंस् । दक्षिणगोले फलेन हीनमुत्तरगोले युक्तमित्यर्थः। एवं याम्ययोरग्निनैऋत्य कोणयोः शक: स्यादिति । एतदुपपत्तिदर्शनेन प्रश्नोत्तरं स्फुटमस्तीति ॥ १२ ॥ अब प्रश्न विशेष को कहते हैं । हि. भा—जो गणक इष्टर्लिन में आग्नेय वा नैऋत्य कोणवृत्त स्थित रवि के शङ्कु और छाया को एक वर्ष पर्यन्त समय में भी कहते हैं वे सूर्य को जानते हैं; इति ॥ १२ ।। इसकी उपपत्ति । सूर्य सिद्धान्त में ‘त्रिज्यावर्गार्श्वतोऽग्राज्यावगनाद्द्वादशाहतात् । पुनर्बादशनिध्नाच्च । सम्यते यत्फलं बुधैः' इत्यादि संस्कृतोपपति में लिलित लोकों में ‘फुलेन हीन संयुक्त