पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानाध्यायः १५११ सु.भा.-यो गणकोऽधिकमासावमरात्रसम्भवज्ञः स एव सौरादिमानानि वेत्ति यतः सौरचान्द्रमानाभ्यां सम्यग्ज्ञाताभ्यामधिमासज्ञानं चान्द्रसावनमानाभ्यां च क्षयाहज्ञानं भवति । शेषं स्पष्टम् ॥१२॥ मधुसूदनसूनुनोदितो यस्तिलकः श्रीपृथुनेह जिष्णुजोक्त । हृदि तं विनिघाय नूतनोऽयं रचितो मानविधौ सुधाकरेण । इति श्रीकृपालुदत्तसूनुसुधाकरद्विवेदिविरचिते ब्राह्मस्फुटसिद्धान्तनूतनति लके मानाध्यायस्त्रयोविशः ॥१२॥ वि. भा-योऽघिमाससम्भवमवमसम्भवं च जानाति स मानानि (सौर चान्द्रमानादि) जानाति, यतो ज्ञाताभ्यां सौरचान्द्रमानाभ्यामघिमासज्ञानं भवति तथा चान्द्रसावनमानाभ्यां चावमदिनज्ञानं भवति । अयमार्याद्वादशभिस्त्रयो विशो मानाध्यायोऽस्तीति ॥१२॥ इति ब्राह्मस्फुटसिद्धान्ते मानाध्यायस्त्रयोविंशः अब अध्याय के उपसंहार को कहते हैं। हि- भा.- जो गणक अघिमास सम्भव को जानते हैं और अवम सम्भव को जानते हैं वे मान (सौर चान्द्रमानादि) को जानते हैं क्यों कि अच्छी तरह विदित सौरमान और चान्द्रमान से अधिमास शन होता है, तथा चान्द्रमान और सावनमान से क्षयाह ज्ञान होता है इति ।।१२॥ इति ब्राह्मस्फुट सिद्धान्त में तेईसवां मानाध्याय समाप्त हुना ।