ब्राह्मस्य्फुटसिद्धान्तः
अथ मनाध्ययः आरभ्य ।
तत्र केन केन मानेन के के पदार्थो गृह्यन्त इत्याह ।
सरेणाब्दा मासास्तिथयश्चन्द्र ण सवनैदिवसाः ।
विनमासाब्वपमध्यां न तद्विनाऽर्केन्दुमानाभ्याम् ॥१॥
सु० भा०–सौरेणाब्दाः । चान्द्रण मासास्तिथयश्च । सावनैदिवसा
दिनमासाब्दपा मध्या ग्रहाश्च गृह्यन्ते । तत् सावनमानं चार्कोन्दुमानाभ्यां विना न
भवति । सौरचान्द्राभ्यां विनाऽहगंणसाधनं न भवतीत्यर्थः ॥१॥ ॥
वि'.भार-सौरेण मानेनाब्दा अर्थादहर्गणानयने सौरमानेन वर्षाणि गृह्यन्ते।
तेषां (सौरवर्षाणां) द्वादश गुणनानन्तरं यदा मासा युज्यन्ते तदा चान्द्रमास
गृह्यन्ते । ततस्त्रिशद् गुणनानन्तरं चान्द्रमानादेव तिथयोऽपि ग्राह्या भवन्ति । पुन
रानीतेऽहर्गणे सावनमानाद्दिनानि गृह्यन्ते । सावनेरेव वर्षांपतिमासपतिज्ञानम् ।
तथा चोक्तम्
अहर्गणात् कल्पगतादवाप्तं खषड्गुणं ३६० लॅब्धमथ त्रि३ निघ्नस् ।
रूपाधिकं भूधर ७ भक्तशेषं रवेर्भवेत् सायनहायनेशः ।
एवं वर्षाधिपतिज्ञानम् ।
तथा अहर्गणात् खाग्नि ३० हतादवाप्तं द्विघ्नं सरूपं नगभक्तशेषम् ।
वदन्ति तं सावनमासनाथं क्रमेण सूर्यादिह वर्तमानस् ।
एवं मासाधिपतिज्ञानर । मध्यमग्रहाश्च सावनमानैरेव गृह्यन्ते । तत्
सावनमानं च सौरचान्द्रमानाभ्यां विना न भवत्यर्थात् सौरचान्द्राभ्यां
विनाऽहर्गेणसाधनं न भ नतीति । सिद्धान्तशेखरे ‘वषf सौरास् प्रवदन्ति
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४०६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
