पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३५८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


यन्त्राध्याय १४४७ ताभ्यां सूयंशशाङ्कौ वेध्यावग्रस्थितेन सूत्रेण । सूत्रज्ययाऽमरांशा ये तेऽर्कविभाजिता स्तिथयः ॥२५॥ सु० भा०–यष्टिव्यासार्धात् समभुवि भगणांशकं चक्रांशातिं वृत्तं कृत्वा केन्द्रगतः कीलः कार्यः । कीलप्रोते है यी वृत्तव्यासार्थं प्रमाणे कार्यं । किंविशिष्टे यष्टी मूले पृथगग्रयोर्बद्ध । यत्र कीले यष्टिमूलाग्र ते एकत्र मिलिते कार्यं इत्यर्थः । ताभ्यां मूलमिलिताभ्यां यष्टिभ्यां मूलस्थदृष्टया युगपदेकैकयष्टयग्रगतौ सूर्येश- शाङ्कौ गणकेन यष्टधग्रयोगतं यत् सूत्रं तेन सूत्रेण वेध्यौ । तत् सूत्रं च रविचन्द्रा न्तरांशपूर्णज्या गोलयुक्तया भवति । अतस्तत्सूत्रज्यया पूर्णज्यया क्षितिजवृत्तं यद्धनुस्ते रविचन्द्रयोरन्तरांशा भवन्ति । एवं येऽन्तरांशास्तेऽर्कविभाजिता द्वादश भक्तास्तिथयः स्युरिति ।। २४-२५ ।। वि. भा–समपृथिव्यां यष्टिव्यामार्धात् वृत्तं कार्यं तच्च चक्राशाङ्कितं कृत्वा तत्केन्द्रगतः कील कार्यः। कीलप्रोते वृत्तव्यासार्थं प्रमाणे द्रुयष्टी कार्ये । मूले पृथगग्नयोर्वद्ध (कीले यष्टिमूलाग्रे एकत्र मिलिते कायं) ताभ्यां मूलमिलिताभ्यां यष्टिभ्यां मूलस्य दृष्टया युगपदेकैक यष्टधग्रगतौ सूर्य चन्द्रौ यष्टयग्रयोगतेन सूत्रेण वेध्यौ । तद्यष्ट्यग्रगतं सूत्रं रविचन्द्रन्तरांश पूर्णज्या भवति अतस्तत् सूत्रज्यया (पूर्णज्यया) क्षितिजवृत्ते यच्चापं ते रवि चन्द्रान्तरशा भवति। तेऽन्तराशा द्वादश भक्ता स्तदा तिथयो भवन्तीति । सिद्धान्तशेखरे "वृत्ते चक्रव लाङ्कितेऽक्ष शकटाकारं शलाकाद्वयं । कृत्वा तेन विवेचयेद्रविविक्षु लम्बस्य पातस्तयोः यावन्तः परिधौ तदन्तरलवाः सूर्योदभक्ता गताः शुक्ले स्युस्तिथयो भवन्ति बहुले पक्षे च भोग्याः स्फुटम् । श्रीपतिनोक्तमाचार्योक्तानुरूपमेव । अस्य सूत्रस्यायमर्थं-भगणांशांङ्किते ऽत्रवृत्ते शकटाकारं शलाकाद्वयं मूले’ दृढ़विद्ध यष्टिद्वयं विधाय तेन शलाकाद्वयेन सूर्यचन्द्रौ वेधयेदर्थात् यष्टयोर्मुले एकत्र कृत्वा मूलमिलिताभ्यां तभ्यां यष्टिभ्यां मूलस्थ दृष्टया यष्टयग्रगतौ सूर्यचन्द्रौ वेधयेत् (तयोर्युष्टग्रगतयो रविचन्द्रयो लम्बस्य पातः कार्यार्थाद्रविवेचकारि यष्टयग्रादेको लम्बश्चन्द्रवेधकारि यष्टयग्राच्चान्योलम्बः कार्यः। यावन्तः परिधौ तदन्तरलवा । अयमर्थाः लम्बयोरन्तरं यत् तत्परिधौ तस्य येऽन्तरांशा अर्थाज्ज्यावत्सम्पादितस्य लम्बान्तरस्य परिधौ यावन्मिता अंशाः स्युस्ते द्वादशभिर्भाजिताः सन्तः शुक्लपक्षे गतास्तिथयः स्युः ।बहुले पक्षे (कृष्णपक्षे) भोग्या अवशेषास्तिथयो भवन्तीति । तत्र लम्बनिपाताभ्यां तयोरन्तरं ज्यावद्यद् भवति शकटाकारेण घृतं शला