पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३५५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१४४४ ब्राह्मस्फुटसिद्धान्ते ज्ययोर्मानानुसारेण मापितमङ्गुलात्मकं शङ्कुं तदुदरगतभाग्नी यथा स्यात्तथा स्थापयेत् । अग्रकाग्रात् तदवधि (अग्राग्रबिन्दोः) शङ्कुमूलपर्यन्तमहोरात्रवृत्ते येंऽशस्ते गतो कालभागाः स्युः । ते कालभागाः षड्भर्भक्ता सन्तो दिनगत घटिका भवेयुरिति । तिः । समभूमौ वृत्तकरणं यष्टेः शोश्च स्वरूपादिकं कथितमेव । अत्र पूर्वापर बिन्दुभ्यामङ्गुलात्मिकाऽग्रा वृत्तकेन्द्रबिन्दोश्च नतज्या दत्ता, यष्टचग्रबिन्दोलॅम्बरू- पोऽड्गुलात्मकः शङ्कुस्तदनुसारिमानेन मापितश्चक्रभागाङ्कितेऽहोरात्रवृत्ते यष्टि संलग्नस्तथा स्थापितो । यथा छायाग्नवृत्तीन्द्रपतेत् । एवमग्राग्रबिन्दोः शङ्कमूल पर्यन्तमहोरात्रवृत्तीयमंशादिमानं कालभागाः स्युरिति । अत्र श्री भास्कराचार्येण “अग्राग्रउदितो रविर्यथा यथाऽहोरात्रवृत्त गत्योपरि गच्छति तथा तथा केन्द्र निवेशितमूलाया यष्टेरग्र भ्राम्यमाणे यष्टिनष्टद्युतिः स्यात् । यतो यष्टयग्रे रविः। अग्राग्रादर्कं यावदहोरात्रवृत्ते यावरयो घटिकास्तावत्यो दिनगता भवन्ति । तत्राकाशे द्युज्यावृत्तं लेखितु नायाति अतोऽग्राग्र यष्टयग्रयोरन्तरं शलाकया मित्वा गृहीतम् । ततो भुवि लिखिते द्युज्यावृत्ते तया शलाकया ज्यारूपया धनुषि घटिकाज्ञानं युक्तियुक्तम् ।। इत्युच्यते, अनयोर्भावनया श्रीपत्युक्तो भास्करोक्तौ च सर्वमुपपद्यते । अत्र कलांशाः षड्भक्ता घटिका भवन्त्यहोरात्रवृत्ते शष्टयधिकशतत्रयमंशा अङ्किताः सन्ति तेन षष्टिघटिकानुसारेण षभिरंशैरेका घटिका भवतीति । श्रीपत्युक्तमिदं यष्टियन्त्रेण समयज्ञानं भास्करोक्त च लल्लोक्तस्य "अग्राग्राच्छङ्कृभ्रमवृत्ते कालांशकॅलिखेद्राशिम्। दिङ्मध्यच्छायाग्र कृत्वाऽत्र स्थापयेच्छङ्कुम् । अग्राग्राच्छङकृतलान्तरस्थिता वा समुद्गता भागाः । कालांशाः षट्कहृता भवन्ति धटिका दिनस्य गताः । इत्यस्यैवानुरूपमिति विज्ञविवेच्यम् ॥२२॥ अब प्रकारान्तर से घटिकानयन को कहते हैं । हि. भा.--पहले अग्राग्र और यष्टधग्र के अन्तर को मापन कर जो लिया गया है । उसके आधे को त्रिज्या से गुणाकर यष्टि व्यासार्त्पन्न द्यज्या से भाग देने से जो फल हो उसके चापांश को दो से गुणा कर छः से भागदेने से वा (प्रकारान्तर से) घटी होती है इति ।