पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४० ब्राह्मस्फुटसिद्धान्ते यष्टिव्यासार्धगोले यत्र यष्टिर्नष्टशूतिर्जाता तत्र यष्टिः स्थिरा कार्या । क्षितिजेऽग्रायास्त द्यष्ट्यग्रस्य च यदन्तरं तत्समा या पूर्णज्या तया द्वितीयवृत्ते (युज्यावृत्ते) यद्धनु (चापं) र्भवेत्तस्मिन् धनुषि (चापे) या घटिकास्ताः पूर्वकाले गताः, अपरतः पश्चिमकपाले) शेषाः (दिनशेषाः) घटिकाः स्युः । यद्येकस्मिन् दिने द्युज्या स्थिरा भवेत्तदैवानेन विधिना कालज्ञानं भवितुमर्हतीति । सिद्धान्तशेखरे ‘संसाधिताशं कृतचक्रभागं विधाय वृत्तं समभूप्रदेशे त्रिज्याङगुलाङ्कां सुसमां च यष्टिं नष्टद्युत तज्जठरे निदध्यात् । तदग्रलम्बः खलु शङ्कुरुक्तस्तन्मूलकेन्द्रस्तरमत्र दृग्ज्या । पूर्वापरात्तद्विरं भुजः स्याछ वग्रमस्तोदयसूत्रमध्यात् । शङ्क, वग़मीर्गुणितं विभक्त तल्लम्बकेन स्फुटमक्षभा स्यात् । अग्राग्रभागान्नतकालमौवीं कार्यंहे खल्वङ,गुलवृत्तजाता श्चोपतिनैवं कथ्यते; एतेषामयमर्थः-समपृथिव्यां पूर्वादिदिशां ज्ञापकंधिन्हैः सहितं षट्यधिकशतत्रयमिताः समाना भागाः कृता यस्मिन् तत्-एतादृशं वृत्तं विधाय तज्जठरे (मध्ये-केन्द्र वा) स्वेच्छानुसारं यावदङ,गुलतुल्या त्रिज्या कल्पिता भवेत्तावद्भिरङ्गुलचिन्हैलिन्हितां सर्वतोऽपि निम्नोन्नतभावरहितां छायाहीनाम थत् सूर्याभिमुखं यष्टिस्तथा स्थापिता भवेद्यथा स्वमार्गे वर्धिता सती सूर्यबिम्ब केन्द्र गच्छेत्तादृशीं यष्टि धारयेत् । यष्टयग्रात् भूपरि पात्यमानोलम्बः शङ्कुः। अस्मिन् वृत्ते शङ्कुसूलकेन्द्रान्तरं दृग्ज्या (नतांशज्या) भवति । पूर्वापरस्त्राच्छ कुमूलस्यान्तरं भुजसंज्ञको भवति । उदयास्तस्त्राच्छङ्कुमूलं यावच्छङ क्वग्र संज्ञकस । अस्य नाम भास्करेण शङकुतलं कथ्यते । शङ् वन (शङ्कृतलं) द्वादशभिर्गुणितं पूर्वकथितलम्बेन (, कुना) विभक्त तदा स्फुटा पलभा स्यात् । स्वदेशसम्बन्धिनी पलभा भवतीति । अग्राग्रबिन्दोरत्र अङ गुलवृत्तजाता नतांशज्या कार्या । प्रथमं त्रिज्यारूपा यष्टिर्यावन्मिताङ्गुला रचिता तदङ्गुलव्यासार्घवृत्त सम्बन्धिनी इग्ज्या कर्तव्येति समायां भुवि कृतदिचिन्हं भगणांशाङ्कितं च यद्वैतं तत् क्षितिजवृत्तम् त्रिज्याङगुला यष्टिस्त्रियास्वरूपा । सा नष्टद्युतिर्यथा भवेत्तथा घार्या, येन यष्टवर्गों वधतं सद्रविबिम्बकेन्द्र गच्छेत् । नष्टद्युतेयंष्टेरग्रादधो यावान् लम्बस्तावांस्तस्मिन् समये शङ्कुः। त्रिज्यारूपाया यष्टेः शङ्कुरूपलम्बस्य च वर्णान्तरमूलं नतांशज्ये (दृग्ज्या) ति शङ् कृमूवुलत्तकेन्द्रयोरन्तररूपेति । शङ्कुसूलपूर्वापररेखयोरन्तरं भुजः । अग्राग्रयोः (पूर्वापर दिग्गतयोरुपरिगता रेखोदयास्तसूत्रम्) उदयास्तसूत्रस्य शङ्कुमूलस्य चान्तरं शङ् वन शङकुतलनाम्ना प्रसिद्धम् । तदा शंङ कुना