पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३४७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१४३६ ब्राह्मस्फुटसिद्धान्ते लम्बेन मुक्ता रविभागतोंऽशास्तत्रोदितास्ते घटिकास्तु याताः। चक्रारव्यमेतद्दलमस्य चापं ज्यामध्यरन्ध्र स्थित लम्बमेतत् ।” श्रीपतिनैवमुक्तम् । सुवृत्तं फलकं षष्ट्या चक्रांशैश्चाङ्कितं कृत्वा । अयमर्थः-सुसरलससारदारुजातं वर्तुलं पीठाकारं यन्त्र निर्माय तत्र (यन्त्रे) घटिकाज्ञानार्थं षष्टिविभागाः । अंशादिज्ञानार्थं च षष्ट्यधिकशतत्रयं ३६०विभागाः कार्याः । अस्मिन् यन्त्रे मध्ये (केन्द्रबिन्दौ) अवलम्बयष्टिः—देयः । यद्वत् अवलम्ब यष्टिमूलगतयन्त्रच्छिद्रण, अर्करश्मिः (सूर्यबिम्बकेन्द्रतेजः) यन्त्रकेन्द्र पतति इत्यनेन विधिना यन्त्र स्थापयेत् । लम्बेन (अवलम्बषष्टया) मुक्ताः (त्यक्ता) ये भागास्ते सूर्याधिष्ठितांशात् उदिता भागाः स्युः । घटिकास्तु अवलम्बभुक्ता व्यतीता घटिकाः स्युः । अनेन प्रकारेण निमितं यन्त्र चक्रयन्त्र स्यात् अस्य चक्र- यन्त्रस्याधं चापसंज्ञकं यन्त्र भवति । एतच्चापयंत्र ज्यामध्यरन्ध्रस्थितलम्बं कार्यं चक्रयन्त्ररूप वृत्तस्यार्धभागझरिण्या व्यासरेखाया मध्ये रन्तुं तत्र लम्बश्च देयः। वृत्ताकारकाष्ठयन्त्र षष्टिघटीभिः षष्ट्यधिकशतत्रयां ३६० शैश्चाङ्कितं कृत्वा मध्ये स्वल्परन्थं तद्गतावलम्बयष्टिकं च सूर्याभिमुखं तथा स्थापितं यथैतद्यन्त्र वधतं सत् सूर्यबिम्बकेन्द्रगतं भवेत् । तत इदं हवृत्तानुरूपं जातम् । एतत्केन्द्र लम्बरूपाया यष्टेछाया तत्परिधौ यत्र लगति स बिन्दुः सूर्यकेन्द्रविन्दोः षड्भान्तरे भवेत् । अत्र सूर्योदयकाले सूर्याधिष्ठितांशात् षड्भान्तरे पश्चिम बिन्दावेवावलम्बच्छाया यन्त्रपरिधौ लगति । ततोऽनन्तरं सूर्यो यथा यथोपरि गच्छति तथा तथा लम्बच्छाया पश्चिमबिन्दोरघो गच्छति, त एव लम्बमुक्ता अशास्ते सूर्याधिष्ठितांशात् आरभ्योन्नतांशा एव । घटिकाभिश्चाङ्कितं यन्त्रमिति यन्त्रमुक्ता घटिकाः सूर्योदयाद् गतघटिका इति । एतचक्रयन्त्रस्याधं वृत्तार्घरूप चापयन्त्रमिति । तत्रापि वृत्तार्धकरिष्या व्यासरेखाया मध्ये सूक्ष्मं छिद्र चक्रयन्त्र वल्लम्बश्च देयः । चक्रयन्त्रवदेवेहोन्नतांशानामुन्नतघटिकानां च ज्ञानं वृत्तावुदेव क्रियते । अत्र लल्लोक्तम् “वृत्तं कृत्वा फलकं षड्वर्गाङ्क तथा च षट्चकम् । मध्यस्थितावलम्बं मध्यस्थित्या प्रविष्टोष्णम् । तदधो लम्बविमुक्त गृहादि यत्तदुदितं दिनकरांशात् । नाडयः पूर्वकपाले घुगतास्ताः पश्चिमे युदलात् ।। चक्राख्यं यन्त्रमिदं दल धनुर्न्त्रमाहुरस्यैव । ज्याकार्मुकभृच्छिद्रप्रविष्टदिनकरकरें घायम् ॥