यन्त्रध्यायः १४२९ दिनाघं घटिकाभिर्मध्योन्नतांशास्तदेष्टघटिकाभिः किमित्यनुपातेन य इष्टोन्नतांश आयान्ति तच्छाया वेधोपलब्धेष्टकालिकच्छाया समा न भवन्तीति तेषामानयन मसत् ॥ ११ ॥ वि. भा. - ये मध्यान्हकालिकोन्नतांशैदिनार्धनाड़ीतुल्या इष्टघटिकाः प्रकल्प्याभीष्टोन्नतांशैरनुपातेनेष्टा घटिका वदन्ति ते मूढः सन्ति । यतो यदि दिनार्धघटींभिर्मध्योन्नतांशास्तदेष्टघटीभिः किमित्यनुपातेन य इष्टोन्नतांश आयान्ति तच्छाया वेघोपलब्धेष्टकालिकच्छाया समान भवत्यतस्तदानयनं न समीचीनमिति । सिद्धान्तशिरोमणौ । चक्र चक्रांशाङ्क परिधः श्लथश्टङ्खलादिकाधारम् । धात्री त्रिभ आधारात कल्प्या भाषीऽत्र खाड़ी च ।। तन्मध्ये सूक्ष्माकं क्षिप्त्वाकभिमुखनैमिकं धार्यम् । भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्ताः । तत्खार्धान्तश्च नता उन्नतलवसंगुणीकृतं युदलम् । युदलोन्नताँशभक्त नाडयः स्थूलाः परैः प्रोक्ताः ॥ व्याख्या-धातुमयं दारुमयं वा समं चक्र कृत्वा तन्नेम्यां शृङ्खलादिराधारः शिथिलः कार्यः । चक्रमध्ये सूक्ष्मं सुषिरमाधारात् सुषिरोपरिगामिनी लम्बवद्ध्वैरेखा कार्या । तन्मत्स्यतोऽन्या तिथंग खा च कार्या । तच्चक्रे परिधौ भगणांशैरञ्जयित्वाधारात् त्रिभ इति नवतिभागान्तरे तिर्यग्र खा तत्परिधि सम्पाते धात्री क्षितिः कल्प्या । भार्धेऽन्तर ऊध्र्वरेखा नेमिसम्पाते खाधं कल्प्यम् । सुषिरे सूक्ष्मा शलाका प्रदातव्या । सा चक्षसंज्ञा तच्चक्रमर्काभिमुखनेमिकं च यथा भवति तथाधारे धार्यम् । तथा श्रुतेऽक्षस्य छाया परिघो यत्र लगति तत्कुज चिन्हयोरन्तरे येऽशास्तेरवेरुन्नतांशाः। ये छायाखड्डयोरन्तरे ते नतशा ज्ञेयाः । एवमत्र नतोन्नतांशज्ञानं भवति । अतोऽन्यैर्घटिका अप्यानीताः । तस्मिन् दिने गणितेन मध्यदिनोन्नतांशान् दिनार्धमानं च ज्ञात्वानुपातः कृतः । यदि मध्यदिनो न्नतांशैदिनार्धनाड्यो लभ्यन्ते तदैभिः किमित्येवं स्थूला घटिकाः स्युः । अत्र पर वाकयम् । इष्टोन्नतांशा युदलेन निघ्ना मध्योन्नतांशैर्विदृचाश्च नाड्यः। दिनस्य पर्वापरभागयोश्च याताश्च शेषाः क्रमशो भवन्ति । वस्तुत एतस्य खण्डनमाचार्येण भास्कराचार्येण च यत् क्रियते तत्समीचीन मेवेत्याचार्योक्तरलोकव्याख्यायां द्रष्टव्यमिति ॥११॥ अब दूसरों के घनयन का खण्डन करते हैं । हि. भा.जो लोग मध्याह्नकालिक उन्नतांश से दिनार्ध घटी तुल्य इष्ट घटी
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३४०
दिखावट