१४०२ ब्राह्मस्फुटसिद्धान्ते इत्यादि से प्राचीनोक्त अहोरात्रवृत्तों के सदृश ही अहोरात्रवृत्त कहते हैं । केवल अयनांश की उपलब्धि के हेतु से ‘विषुवत्क्रान्तिवलयोः सम्पातः क्रान्तिपातः स्या' पहले यह कह कर ‘अथ कल्प्या मेषाद्या अनुलोमं क्रान्तिपाताङ्कात् ।' यह कहते हैं इति ।।५७५८। इदानीं रा२युदयाः कथं समानेत्याशङ्कयाह । लङ्ग समपश्चिमगं प्राणेन कलां भमण्डलं भ्रमति । अपमण्डलस्य राशिद्वादशभागः क्षितिजलग्नाः ॥५॥ यान्त्युदयं मेषाद्या यतस्तदुदया न कालसमाः । क्रान्तिवशालङ्कायां तदूनताधिधमक्षवशात् ॥६०॥ सु. भा–लङ्कासमपश्चिमगं भमण्डलं भचक्रमध्यप्रदेशरूपं नाडीमंडलं प्राणेनैकेनासुना कलामेकं कलां भ्रमति । नाडीमण्डलस्यैका कलैकेनासुनोदेति । क्रान्तिमण्डलस्य द्वादशभागो द्वादशसमानभागो राशिरुच्यते । ते मेषाद्याः क्षिति जलग्ना यत उदयं यान्त्यतो लङ्कायां क्रान्तिवशात् तिरश्चीनत्वात् तदुदयाः कालसमाः कालेन समा न सन्ति । एवं स्वदेशेऽपि क्रान्तिवशादक्षवशाच्च तेषां राशीनामुदयेषु ऊनताधिक्षी भवति । ‘यो हि प्रदेशो ऽपमण्डलस्य तिर्यस्थितो यात्युदयं तथाऽस्तम्-इत्यादि भास्करोक्त चिन्त्यस् ६०॥ वि. भा. –लङ्कापश्चिमपश्चिमगं भमण्डलं भचक्रमध्यप्रवेशरूपं नाडीवृत्तं प्राणेन (एकेनासुना) कलां (एकां कलां) भूमत्यर्थान्नाडीवृत्तस्यैका कलेकेनासुनो देति । क्रान्तिवृत्तस्य द्वादशतुल्यभागो राशिः कथ्यते, ते मेषाद्या यतः क्षितिजलग्ना उदयं यान्त्यतो लङ्कायां क्रान्तिवशात् तदुदयाः कालेन समान सन्ति । एवं स्वदेशेऽपि क्रान्तिवशादक्षवशाच्च तेषां राशीनामुदयेषु न्यूनाधिक्यो भवतीति । क्रान्तिवृत्तस्य त्रिंशदंशात्मक एको राशिः । राश्याद्युपरि राश्यन्तोपरि च ध्रुवप्रोतवृत्तकरणेन तयोरन्तर्गतं नाडीवृत्तीयचापं तद्राशेनिरक्षोदयमानम् । यथा मेषाद्युपरिध्रुवप्रोतवृत्तं नाडीवृत्ते मेषादिविन्दा (नाडीवृत्त क्रान्तिवृत्तयोः सम्पात बिन्दौ) वेव लगति तस्मान् मेषान्तोपरि ध्रुवप्रोतवृत्तनाडीवृत्तयोः सम्पातं यावन्मेषो दयमानं निरक्षदेशीयम् । एवं मेषान्तो (वृषादि) परि ध्रुवप्रोतवृत्तवृषान्तोपरि ध्रुवप्रोतवृत्तयोरन्तर्गतं नाडीवृतीयचापं निरक्षदेशीयं वृषोदयमानम् । वृषान्तो (मिथुनादि) परिध्रुवप्रोतवृत्तमिथुनान्तोपरि ध्रुवप्रोत (आयनप्रोतवृत्त) वृत्तयो न्तर्गतं नाडीवृत्तीयचापं निरक्षदेशीयं मिथुनोदयमानमेतेषु न्यूनाधिक्षे कथं भवतीति प्रदश्येते ।
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३११
दिखावट