पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३०५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१३९६ ब्राह्मस्फुटसिद्धान्ते सु. भा.स्पष्टार्थम् । ‘क्रान्तिवृत्तं विधेयं'--इत्यादि तथा 'क्रान्तिपाते च पातादूपकान्तरे' इत्यादि भास्करोक्त चिन्त्यं । आचार्यमतेऽयनाभावो ज्ञेयः । पातादपमण्डलवदित्यनेन ग्रहाणां विमण्डलानि न्यस्तानीत्यग्र सम्बन्धः ।।५२-५३॥ वि. भा.-पूर्वापरवृत्त नाडीवृत्त क्षितिजवृत्तोन्मण्डलानां पूर्वदिशि सम्पात बिन्दुः पूवंस्वस्तिकं, पश्चिमदिशि सम्पातविन्दुश्च पश्चिमस्वस्तिकम् । अनयोः पूर्वापरस्वस्तिकयोः मेपादितुलादिबिन्दू अपि तिष्ठत इत्ययनांशाभावकालिकी स्थितिः । तेन मेषादिविन्दौ तुलादिविन्दौ च (पूर्वस्वस्तिके पश्चिम स्वस्तिके च) नाडीवृत्तेन सह सक्तवृत्तं क्रान्तिवृत्तं वध्नीयात्, कृलोरादौ (कर्कटादौ) मिथुनान्त- बिन्द्वात्मके नवत्यंचापे नाडीवृत्ताच्चतुर्विंशत्यंशैरुत्तरतः-मृगादौ (धनुरन्तबिन्द्वात्म के तुलादिविन्दोर्नेत्रत्यंचापे) चतुविनृत्यंशैर्दक्षिणतः । बध्नीयात् अस्मिन् (क्रान्तिवृत्ते) वृत्ते रविभ्रमति, चन्द्रादीनां ग्रहाणां पाताश्च भ्रमन्ति । रवेः षड्भान्तरे भूछाया (भूभा) भ्रमति । पातात् (क्रान्ति विमण्डल सम्पातात्) क्रान्ति वृत्तवत् स्वस्वशरांशान्तरे तेषां ग्रहाणां (चन्द्रादीनां) विमण्डलानि भवन्ति । सिद्धान्तशेखरे "पूर्वापरस्वस्तिकमक्तवृत्तं क्रान्त्याख्यमत्राजतुलाधराद्योः । उदग् जिनांशैः खलु कर्कटादौ नाड्या ह्या दक्षिणतो मृगादौ । भ्रमत्यमुष्मिन् वलये दिनेशः शशकपूर्वेद्युसदां च पाताः। सहस्रगः षड्भवनान्तरे हि छाया महो गोल समुत्थिता च ।’ श्रीपत्युक्तमिदमाचार्योक्तानुरूपमेव । शिष्यधीवृद्धिदे तन्त्रे लल्लोक्त च ‘मेषतुलादौ लग्नं नाडीवृत्तेऽपमण्डलं तदुदक् । जिनभागैः कक्र्यादौ याम्यैस्तैरेव मकरादौ । भ्रमति रविरत्र वलये ग्रहाश्च चन्द्रादयः स्वपातयुताः। भूभाभाउँभानोः स्बशीघ्रवृत्ते शंसितपातौ ।’ इत्यनुपदमेब गृहीतं श्रीपतिना। भास्कराचार्येण च "क्रान्तिवृत्तं विधेयं गृहाङ्क भ्रमत्यत्र भानुश्वभाघीकुभा भानुतः । क्रान्तिपातः प्रतीपं तथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यकयेत् । क्रान्तिपाते च पाताद् भषकान्तरे नाड़िकावृत्तलग्नं विदध्यादिदम् । पाततः प्रात्रिभे सिद्धभागैरु दक् दक्षिणे तैश्च भागैविभागे ऽपरे ।" इति प्राचीनोक्तरीत्यैव तथैव क्रान्तिवृत्त संस्थानमुक्तम् । रवित एव छायोत्पद्यते । रविकेन्द्राद् भूकेन्द्रगामिसूत्रं यत्र क्रान्ति वृत्ते लगति तदेव भूभामध्यस्थानम् । रविः 'क्रान्तिवृत्ते-क्रान्तिवृत्तस्य केन्द्र च भूकेन्द्रम् । अतो रवेर्मुकेन्द्रगामिसूत्रं क्रान्तिवृत्तस्य व्यासत्वाद्रवितः षड्भान्तरे क्रान्तिवृत्ते लगति तेन ‘भाधं रवेश्च भूछाये' ति युक्तियुक्तमाचार्योक्त मिति ॥५२-५३॥ अब क्रान्तिवृत्त संस्थान को कहते हैं । हि- भा.-पूर्वापरवृत्त नाडीवृत्त क्षितिजवृत्त उन्मण्डल इन वृत्तों के पूर्वतरफ सम्पात बिन्दु पूर्वस्वस्तिक है, और पश्चिम तरफ सम्पात विन्दु पश्चिम स्वस्तिक है । अयनांशभाव कालं में पूर्वस्वस्तिक ही मेषादि बिन्दु तथा पश्चिम स्वस्तिक तुलादि विन्दु रहता है । अतः