पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२९४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१३८५ इदानीं राहुकृतं ग्रहणं नेति वराहमिहिरादीनां मतं प्रतिपादयति । यदि राहुः प्राग्भागदिन्द्वं छादयति कि तथा नाकम् । स्थियधं महदिन्दोर्यथा तथा कि न सूर्यस्य ॥३७॥ किं प्रतिविषयं सूर्यो राहुश्चान्यो यतो रविग्रहणे । प्रासान्यत्वं न ततो रहुकृतं ग्रहणमर्केन्द्वोः ।३८।। एवं वराहमिहिरश्रीषेणायंभविष्णुचन्द्राद्याः। लोकविरुद्धमभिहितं वेदस्मृतिसंहिताबाह्यम् ॥३६॥ सु. भा–आर्याद्वयं स्पष्टार्थप्त । एवं वराहमिहिरादिभी राहुकृतं रवीन्द्र्न ग्रहणमिति लोकविरुद्ध वेदस्मृतिसंहिताबाह्य ' चाभिहितम् ॥३७-३९॥ वि. भा.- यदि राहुः पूर्वतश्चन्द्र' छादयति अर्थाच्चन्द्रग्रहे पूर्वतः स्पशों भवति, तथा रविं कथं न छादयति अर्थात् सूर्यग्रहणेऽपि पूर्वत एव कथं न स्पशों भवति । चन्द्रग्रहणे स्थित्यधं महदुभवत तथा सूर्यस्य कथं न भवति । प्रत्येक देशे सूर्यो राहुश्च अन्योऽन्यो भवति किं ? यतः सूर्यग्रहणे ग्रासान्यत्वं भवति तस्मात् कारणात् राहुकृतं सूर्याचन्द्रमसोतुं हणं न भवतीति वराहमिहिर-श्रीषेणार्यभट- विष्णुचन्द्रार्दूलक विरुद्ध वेदस्मृतिसंहिताबहिभूतं कथितमिति । यदि राहुकृतं सूर्यचन्द्रयोग्रहणं तदा चन्द्रस्य प्रास्पर्शः, सूर्यस्य पश्चादिति कथ् । राहोरेक- रूपत्वात् । चन्द्रस्य पश्चान्मुक्तिः, रवेः प्राग् मुक्तिरिति कथम् । ग्रहणद्वये स्पर्श मोक्षादेर्दर्शनं समानरूपेण भवितव्यम् । अर्धखण्डितस्य रवेविषाणयोः (श्वङ्गयोः) तीक्ष्णता स्थितिश्च लवी, रवेः क्वापि ग्रहणमस्ति वापि नास्तीत्यादिं नोपपद्यते अत्र वराह मिहिरोक्तम् । “आवरणं महदिन्दोः कुण्ठविषाणस्ततोऽर्घसञ्छन्नः। स्वल्पं रवेर्यतोऽतस्तीक्ष्णविषाणो रविर्भवति । लल्लोक्त च ‘प्रथमं रविमण्डलं ततो न ततः खण्डितमिन्दुमण्डलम् । न समाकृतिरीक्ष्यते स्थितिर्दतो राहुकृतो न स ग्रहः ॥ सवितुश्च यदन्यथाऽन्यथा प्रतिदेशं सकलं समीक्ष्यते । न च कुत्रचिदित्यवैत्य कः कुरुते राहुकृते ग्रहे ग्रहम् ।" सिद्धान्तशेखरे “राहुणा यदि पिधीयते ग्रहस्तिग्मशीतमहसोः स्वतृप्तये । नैकरूपमवलोक्यते कथं स्पर्शमोचनविमर्दपूर्वकम् । । श्रीपतिना संक्षेपेणोक्तमिति ॥३७-३९।। ।