पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ग्रहणवासना प्रारभ्यते । तत्रादौ छादकनिर्णयमाह । महदिन्वरावणं कुण्ठविषाणो यतोऽर्घसत्र,छन्नः। अर्घच्छन्नो भानुस्तीक्ष्णविषाणस्ततोऽस्याल्पम् ॥३६ सु. भा.-यतो ऽर्धसञ्छन्नश्चन्द्रः कुण्ठविषाणो भवत्यत इन्दोरावरणं छादकमानं महत्। भानुश्चार्धच्छन्नस्तीक्ष्णविषाणो भवति ततस्तस्मादस्यावरण- मल्पमस्तीत्यवगम्यते । लघुपरिधौ महापरिधिखण्डितेन विषाणयोः परिधियोग बिन्द्वोः कुण्ठता महापरिधौ च लघुपरिचिखण्डितेन विषाणयोस्तीक्ष्णतोत्पद्यते । अतश्चन्द्रस्य च्छादकः पृथुतरः सूर्यस्याल्पतर इति । ‘छादकः पृथुतरस्ततो विधिः इत्यादि भास्करोक्तमेतदनुरूपमेव ।।३६।। वि. भा.—यस्मात् कारणाव अर्धच्छन्नश्चन्द्रः कुण्ठविषाणो भवति अतश्च न्द्रस्याऽऽवरणं (छादकमानं महत् । भानुः (सूर्यः) अच्छन्नः तीक्ष्णविषाण भवति, तस्मात्कारणादस्याऽऽवणमल्पमस्तीति । लघुपरिघेवृहत्परिधिना खण्डने परिधियोगबिन्दुरूपयोविषाणयोः कुण्ठता भग्नशृङ्गता जायते, बृहत्परिधेर्लघुप- रिधिना खण्डने विषाणयोस्तीक्ष्णतोपपद्यते । अत एव चन्द्रस्याच्छादको महान सूर्यस्य च लघुरिति । एतं प्राचीनोक्तयुक्तिवादमेव भास्कराचार्योऽपि ‘‘छादकः पृथुतरस्ततो विघोरघंखण्डिततनोविषाणयोः । कुण्ठता च महती स्थितिर्यतो लक्ष्यते हरिणलक्षणग्रहे । अर्धखण्डिततनोविषाणयोस्तीक्ष्णता भवति तीक्ष्ण- दीधितेः। स्यात् स्थितिर्लघुरतो लघुः पृथक् उदकौ दिनकृतोऽवगम्यते । इत्यने नोक्तवानिति ।।३६।। अब ग्रहण वासना प्रारम्भ की जाती है । उसमें पहले छादक निर्णय को कहते हैं । हि. भा. -आधा आच्छादित चन्द्र का शुङ्गकुण्ठ (भयहोता है इसलिये चन्द्र का छदक बड़ा है । आचे आच्छादित सूर्य के भृङ्ग तीक्ष्ण (नुकीलेहोते हैं अतः सूर्य के छादक छोटे हैं । लघुपरिधि को वृहद् परिधि से काटने से परिचि के योग बिन्दुरूप शुङ्ग द्वय की कुण्ठ्ता होती है । बृहत्परिचि को लघु परिधि से काटने से दोनों ऊों की तीक्ष्णता होती है अतः चन्द्र का छदक महान है और सूर्य का छदक लघु है । इस प्राची नोक्त युक्तिवाद ही को भास्कराचार्य ने भी `छादकः पृथुतरस्ततोविघोः’ इत्यादि विज्ञान भाष्य में लिखित श्लोकों से कहा है इति ।।३६।।