पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२३३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


                             ब्राह्यस्पुटसिद्वान्ते
                           इदानीं भूगोलसंस्थानमाह ।   
                शशिबुधसिताकं कुजगुरुशनिकक्षावेष्टितो भ कक्षान्तः ।
                भूगोलः सत्वानां शुभाशुभैः कर्मभिरुपात्तः ॥२॥ 
  सु.भा. - अयं भुगोलः सत्वानां प्राणिनां शुभाशुभैः कर्मभिरुपात्तः प्राप्तो भवति। 'भूमेः पिण्डः               शशाङ्कग्नकविरवि-इत्यादि भास्करोक्तमेतदनुरुपमेव्। शेषं स्पष्टम्॥२॥
 वि.भा.-- चन्द्रबुधशुक्ररविकुजगुरुशनीनां कक्षावृत्तैर्वेष्टितः  (आवृतः) नक्षत्रकक्षाया मध्येsयं भुगोलोस्ति यश्च प्राणिनां 'शुभाशुभैः कर्मभिः प्राप्तो भवति। चन्द्रबुधशुक्रादिग्रहकक्षावृत्तानां कथमीदृशी उपर्युपरि स्थितिरस्ति तधुक्तिग्नानार्थ मध्यमाध्यायो द्रष्टव्यो वा मदृकाविभूषितो वटेश्वरसिध्दान्तस्य मध्यमाधिकारो द्रष्टव्यः भुमेः स्वरुपे मतान्तराणि सन्ति यथा "अदर्शोदरसन्निभा भगवती विश्वम्भरा कीर्तिता, कैश्चित् कैश्चन कूर्मपृष्ठसदृशी कैश्चित् सरोजाकृतिः। अस्माकं तु कदम्बपुष्पनिचयग्रन्थेः समा सम्मता सर्वत्रासुमतां चयेन निचिता तोयस्थलस्थायिनाम्" कैश्चित् पौराणिकैः देवतास्वरुपा भगवती पृध्वी मुकुरतलतुल्या कथिता, कैश्चन कूर्मपृष्ठसदृशी उन्नतमध्या, कैश्चित् कमलाकारा कथिता, अस्माकं ज्योतिषिकारणं तु कदम्बपुष्पनिचयग्रन्थेः समा, सर्वत्र जीवानां चयेन निचितानुमतेति सिद्धान्तशेखरे श्रीपत्युक्तिरस्ति,सिद्धान्तशिरोमणौ 'सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः। कदम्बकुसुमग्रन्थिः केसरप्रसरैरिव' भास्करोक्तिरियं श्रीपत्युक्तिसद्दश्येवास्ति, परन्तु नवीनाः पृथिव्या आकृतिं दीर्ध पिण्डाकृतिसदृशीं स्वीकुर्वन्ति। ग्रहनक्षत्रकक्षावृत्तसंस्थानसम्बन्धे सिद्धान्तशेखरे 'विधुबुधसित सूर्योरैज्यपातग्ङिकक्षावलयपरिवृत्तोसावृक्षकक्षोदरस्थ' इत्यादि श्रीपत्युक्तिरियं सिद्धान्तशिरोमणै 'भूमेः पिण्डः शशाङ्कग्न-कविरविकुजेज्यार्किनक्षत्रकक्षावृत्तैवृत्तो वृत्तः सन् मृदनिलसलिलव्योमतेजोमयोsयम्' भास्करोक्तिरियं चाssचार्योक्तिसदृश्येवास्तीति सम्प्रति वेधेन चन्द्रो भुवः समन्ताद् भ्रमणं करोति तथा सूर्यात् परितः क्रमेण बुधशुक्रभूमिभौमगुरुशनि नक्षत्राणि भ्रमन्तीति सिध्यति। अत एव प्राचीनानां भूस्थिरवादिनां भूपरितो ग्रहा म्रमन्तीति  वदतां मते बुधशुक्रकणंयोर्महदन्तरमिति प्रसिद्धम्। पूर्वपश्चिमयोस्तयोर्द्दश्यादृश्यत्वं च तन्मते न धटते। ग्रहाणामूर्ध्वाधरत्वं च तेषां कर्णानां ज्नानेन स्फुटं  विज्नायते। बिम्बीयकर्णानामानयनं पूर्वमेव मध्यमाध्याये मया लिखितं तत्तत एव ज्नातव्यम्। एवं रविग्रहबिम्बान्तरवेधेन सर्वे ग्रहा रविपरितो भ्रमन्तीति स्फुटं सम्प्रति नव्यमतेन विज्नायत इति॥२॥
    अब भूगोल संस्थान को कहते है।  
 हि.भा.-चन्द्र-बुध-शुक्र-रवि-मङ्गल-गुरु (बृहस्पति) शनि इन सवों के कक्षावृत्तों |