पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मध्यमाधिकारः ८१

सिद्धान्तशेखरे एवैतस्य व्याख्या तट्टीकाक मक्किभट्टेनैवं क्रियते—सृष्टेर्मुखे पूर्वं विश्वे ध्वान्तमये तमोमये भूते सति पश्चादिनपूर्वक्रेष्वर्कपूर्वकेषु ग्रहेषु सत्सु दिनप्रवृत्तिर्यस्मात्तस्मात् तदधीश्वरो यो ग्रहः अर्कादिस्तत्सम्बन्धिनो वारस्योदयादर्कोदयमारभ्य प्रवृत्तिरित्यर्थः । विश्वशब्दस्य नामत्वसंज्ञात्वात्तेन विश्वस्मिन्निति प्रयोगो न भवति, एतदुक्तं भवति सृष्टेः पूर्वं विश्वमन्धकमभूत् ।

यथाह भगवान् मनुः - आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमनाधृष्यं प्रसुप्तमिव सर्वतः ।। इति

नह्येवंविधे काले वारप्रवृत्तिविचारः सम्भवति वाराधीश्वराणां ग्रहाणामभावात् तस्माद्रात्रौ वारप्रवृत्तिपक्षो न सम्भवति नापि मध्याह्नास्तमयकालावारभ्य वारप्रवृत्तिः । तथा सति तावन्तं कालं वारेण दिनेन भवितव्यम् । तथा च लोकव्यवहारलोपप्रसङ्गः। तस्मादर्कोदयपक्ष एव श्रेयानिति । अस्मिन्नपि पक्षे देशभेदाद्वारप्रवृत्तिभेदो भवति यथा-

वारप्रवृति मुनयो वदन्ति सूर्योदयाद्रावणराजधान्याम् । ऊध्वं तथाऽधोऽप्यपरत्र तस्याश्वराधंदेशान्तरनाडिकाभि: ।।

एतदेव स्पष्टयति-

लङ्कोदग्याम्यसूत्रात्प्रथममपरतः पूर्वदेशे च पश्चा- दध्वोत्थाभिर्घटीभिः सवितुरुदयतो वासरेशप्रवृत्तिः ।। ज्ञेया सूर्योदयात् प्राक् चरशकलभवैश्चासुभिर्याम्यगोले । पश्चात्तैः सौम्यगोले युतिवियुतिवशाच्चोभयोः स्पष्टकालः इति ॥३६॥

अब वारादि को कहते हैं

हि. भा.-उज्जयिनी को दक्षिणोत्तर रेखा ( रेखा ) से पूर्वदेश में सूर्योदय के बाद देशान्तर घटी करके दिनवारादि वारप्रवृत्ति होती है, रेखा से पश्चिम देश में देशान्तर घटी करके सूर्योदय से पहले दिनवारादि होती है ॥३६॥

उपपत्तिः

लङ्कोदय काल में वारादि होती है. इस परिभाषा से रेखा से पूर्वदेश में सूर्योदय के बाद देशान्तर घटी करके वारप्रवृत्ति होती है, रेखा से पश्चिम देश में सूर्योदय से पहले उतने ( देशान्तर घटी ) ही काल पश्चात् प्रवृति होती है । सिद्धान्तशिरोमणि में भास्कराचार्य भी "अर्कोदयादूर्ध्वमधश्च ताभि: प्राच्यां प्रतीच्यां दिनप-