पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ७७ वा. .-अयमर्थः भासृष्ट्यादौ यत्रैव काले भास्करोदये ग्रहाः सृष्टास्तत एव कालद्वापरप्रवृत्तिः । यतः प्रथमं दिनं पश्चाद्रात्रिः। षट्प्रहराश्च वररहिता भवन्ती त्येतदपि न शक्यते वक्तुम् । सृष्ट्यादेः पूर्वार्धरात्रे चेत्तदपि न यस्मात् "सति धमणि धर्माश्चिन्त्यते' इत यावान्नरुदयः सृष्टस्तावदयं रात्रिरयं दिवसः इति कथमुच्यते। सुष्ट श्चप्राक् सर्वमेव तमभूतमासीत् । अत्र भगवान्मनुः-आसीदिदं तमोभूतम- प्रज्ञातमलक्षणम् । अप्रतक्यमनाधृष्टं प्रसुप्तमिव सर्वतः इति । अत्र लंकासमयाम्योत्तर रेखापेक्षयोच्यते । अर्धरात्रे वारप्रवृत्तिर्न भवति अन्यथा रोमके सर्वदैव वार- प्रवृत्तिरर्धरात्रेऽन्यश्रास्तमयेऽन्यत्रमध्याह्नोऽन्यत्र ष्टकाले इत्यादि योज्यम् । वि-भा.-यस्मात् कारणात्-अस्मिन् तमोभूते प्राकृतिकप्रलये सूर्यादीना- मभावादन्धकारमये जगति (संसारेब्रह्मणा सृष्टेः (चितेः) भास्करादिभिः (सूर्याचैः) स्ट्यादौ (सृष्टचदिकाले) दिनप्रवृत्तिर्जाताऽर्थात्सृष्टैर्भास्करादिभि रित्यनेन सर्वप्रथमं सूर्यस्येव रचना कृता तत्समय एव वारप्रवृत्तिरभवत् तस्मात् कारणादर्कोदयादेव ( सूर्योदयादेव ) दिनवारो ज्ञातव्य इति, श्राचयतमिदं तदैव समीचीनं भवितुमर्हति यदा प्राकृतिकप्रलये सूर्यस्य लयो भवेत् परं ‘सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयदिति वेदोक्त्या सूर्यस्य नित्यत्वं सिद्धयति, सृष्टयादौ ब्रह्मणा किञ्चित्प्रकाशवति सूर्योऽतिप्रकाशवर्धनार्थमेकः सीसकरूपपदार्थो निवेशितो यद्वारा सूर्योऽवप्रकाशः परिलक्ष्यते, ‘सूयं आत्माजग तस्तस्थुषश्चेति ’ वेदोक्त्या ब्रह्मा सूर्यस्य पुत्रोऽस्तीति सिद्धयति तfह ब्रह्मणा सूर्यस्य रचना कथं भवेत् पुत्रद्वारा पितुः सृष्टेरभावात् सूर्यरचनासम्बन्धे सूर्येण सह ब्रह्मणः केवलमेतावनेव सम्बन्धो यश्च सुष्टयदौ किञ्चित्प्रकाशवति सूर्य प्रकाश वर्धनार्थमुपरि मया प्रदर्शित इति । अन्येषां मते--सुष्टैरित्यत्र सूर्यादीनां नवीना सृष्टिरासीदिति न भ्रमतव्यम् । न चात्र पितापुत्रयोः सम्बन्धोऽपेक्ष्यते येन सृष्टौ वैषम्यमापद्यत । अत्र सुजनं पाथवजीवानां भवति । तथा सति सृष्ट्यादौ नित्याम्बरवासिनां तेषां सूर्यादीनां प्रथमं संदर्शनं भवेदित्येव सुष्टिपदस्य तात्पर्यम् । “भूगतानां विनाशः स्यानो नित्याम्बरवासिनामिति कमलाकरोक्तेः। सूर्यं आत्मा जगतस्तस्थुषश्चेति वेदे उक्तः ।।३४॥ अब दिन प्रवृत्ति को कहते हैं। हि. भा. -जिस कारण से प्राकृतिक प्रलय में सूर्यादिग्रहों के अभाव से अन्धकार- मय इस संसार में ब्रह्मा ने सूर्यादि की रचना की, इससे सृष्टयादि काल में दिन प्रवृत्ति हुई प्रथा ब्रह्मा ने सबसे पहले सूर्य की रचना की, उसी समय वार प्रवृत्ति हुई, इस कारण से सूर्योदय ही से दिनवार समझना चाहिये, आचार्यों का यह कथन तब ही ठीक हो सकता है जब कि प्राकृतिक प्रलय में सूर्य का लय हो, लेकिन ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इस वेदोक्ति से सूयं निरत्र है यह