सामग्री पर जाएँ

पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ ब्रह्मस्फुटसिद्धान्ते मपि नाक्षत्रमुच्यते यतोकंसावनमेवमेवोपयोगि-ग्रहगत्यानयनेऽन्यत्सावनेन नृवत्सरो कऽब्दः मानुषवर्षमित्यर्थः, तस्य द्वादशभागः मध्यरविसंक्रान्यवधिजो रविमासः तस्यैव त्रिंशद्भागो रविदिवसः स च शशिभोगावधिज इत्यादि सौरमानमुक्तम्, पितृदिवसाः शशिमासाः इत्थं त एव शशिनो मासास्तपितृमानेन एव दिवसाश्चन्द्र मासेनैकेन पितृणामहोरात्रो भवत्यर्थः । अत्र वासना पूर्वमेव गोलाध्याये प्रदश तेति । दिव्यानि तु पुनर्दनानि रविभगणा; मेरुवासिनां रविभगणभोगकालेना होरात्रं भवति । वडवामुखवासिनामप्यसुराणां रविभगणभोगकालेनैव त्वहोरात्रं भवति, रविमासैः षभिः तेषां दिनम् षड्भो रात्रिर्भवति एतत् गोलाध्याये सर्व व्याख्यातम् । सवासनिको ब्राह्मो दिवसः कल्पः। एवं मानंश्च यत्प्रयोजनम् तन्मानाध्याये वक्ष्यत्याचार्यः। वयमपि तत्रैव व्याख्यास्याम इति । वि. भा.-रवेरुदयादुदयं सावनं (रविसावनं भानां च (उदयादुदयं) आक्षी सावनं (नाक्षत्रसावनं दिन ) भवति । अर्काऽब्दः (सौरवर्षम् ) नृवत्सरो (मानववर्षे) अर्थादेकसौरतुल्यं मानववधं भवति, पितृ दिवसाः (पितृदिनानि) शशिमासाः (चान्द्र मासाःभवन्त्यर्थाच्चन्द्रमासतुल्यानि पितृणां दिनानि भवन्ति, रविभगणा: दिव्यानि दिनानि ( दैवदिनानि ) भवन्त्यदेकरविभगणतुल्यानि दैवदिनानि भवन्तीति ।।२५।। अत्रोपपत्तयः रवेरुदयादुदयं यावद्रविसावन कुदिनसंज्ञकम् । नक्षत्रोदयात्पुनस्त- दुदयं यावन्नक्षत्रदिनं , सौरवर्षतुल्यं मानववर्षामिति परिभाषारूपाः कथ्यन्ते । अथाधुना चान्द्रमासतुल्यं पितृदिनं कथं भवतीत्येतदर्थं विचार्यते । विघूर्वभागे पितरो वसन्तीति पुराणादिकथितमवलम्ब्य विचारः । तत्र विश्वध्वंभाग (चन्द्रोर्ध्वभाग) शब्देन चन्द्रस्य कियान् भाग ग्रहीतव्य इति । दृष्टिस्थानात् (भूकेन्द्रात्) चन्द्रबिम्बस्यानेकाः स्पर्शरेखा कार्यास्तदा प्रतिस्पर्श बिन्दुजनितचन्द्रबिम्बप्रदेशो वृत्ताकारो भवति, चन्द्रबिम्बे एतस्य शोधनेन यच्छेष स एव चन्द्रोर्ध्वभागस्तत्र पितरो निवसन्तीति पुरातनानां कथनेन ज्ञायते। अथ भूकेन्द्राच्चन्द्रकेन्द्रगता रेखा यत्र पितृ त्रिज्यागोलीययाम्योत्तरवृत्ते लगीत तत्रैव परिणतश्चन्द्रस्तदेव पितृ-ख-स्वस्तिकमप्यस्ति, तत्र यदा रविर्भवेत्तदा दर्शः सूर्येन्दुसङ्गम इत्युक्तेरमान्तो भवेतथा परिणतचन्द्ररूपपितरूवैखस्वस्तिक बिन्दौ रवेगंमनात्तन्मध्याह्नकालोऽतः सिद्धं यदमान्तकाले पितृणां मध्याह्न- कालो (दिनार्ध) भवति, पुनर्यदा तु द्वितीयामान्तो भवेतदा पितृणा द्वितीयदिनाङ् भविष्यति तेन प्रथमामान्ताद् द्वितीयमान्तं यावच्चान्द्रमासतुल्यं पितृप्रथमद्वितीय मध्याह्नकालयोरन्तरं जनं परन्तु प्रथमद्वितीयंमध्याह्नकालयोरन्तरं प्रथमद्वितीय-