पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ४१ भौममन्दस्य द्विनवयमाः २६२ । बुधमन्दस्य द्वित्रिगुणाः ३३२ । जीव मन्दस्य शरेषुवसवः ८५८। शुक्रमन्दस्य ६५३ त्रिपञ्चरसाः कल्पे भगणाः भवन्ति । शशिदा ४१ मन्दानामार्कादीनां विलोमपातानाम् । बसुरसरुन्डुगुण द्वित्रियमाः २३२३१११६८ सप्तरसपक्षाः २६७ ॥२०॥ शशिदा ४१ इति शनिमन्दस्य कल्प भगणाः भवन्ति । विलोमपाताना मिदानीं लिख्यते । वसुरसरुद्रेन्दु गुणाद्वित्रियमा इति चन्द्रपातस्य २३२३१११६८ । सप्तरसपक्षा २६७ इति भौमपातस्य भगणाः भवन्ति । शशियमशरा ५२१ गुणरसा ६३ स्त्रिनववसवः ८६३ समुद्रबसुविषयकः ५८४ । चन्द्रादीनां पश्चाद् व्रजतोऽश्विन्यादिभगरणस्य ॥२१॥ शशियमशरा ५२१ इति बुघपातस्य । गुणरसा ६३ इति गुरुपातस्य, त्रिनन्दवसवः ८६३ इति शुक्रमातस्य । समुद्रवसुविषयाः ५e८४ इति शनि पतस्य । एते यथाक्रमेण कल्पभगणा विलोमपातानामित्यर्थः । यतः सर्वे एव पाताः मेषान्भीनं मीनात्कुम्भमित्याद्युत्क्रमेण भगणपरिवर्त कुर्वते इति पश्चाद् व्रजतोश्विन्यादिभगएय इत्युत्तरसंबन्धो भविष्यतीति । वि. भा.-कल्पे (ब्राह्मदिने) अर्कबुधसितानां (विबुधशुक्राणां) शून्यानि सप्त रदवेदाः (सप्तशून्यानि-रदा द्वात्रिंशत् वेदाश्चत्वारोऽर्थात् ४३२००००००० एतावन्तः) भगण भवन्ति । कि विशिष्टानां कुजगुरुशनिशोस्रोच्चानाखु (मङ्गलगुरुशनीनां शीघ्रोच्चरूपा ये तेषां ) स्वकक्षासु ( स्वभ्रमणवृत्तेषु ) प्रगव्रजत ( पूर्वाभिमुखं गच्छतां ) शशिनश्चन्द्रस्य पञ्चाम्बराणि गुणगुणपदमुनिस्वरशरैमिताः (पन्चशून्यानि त्रित्रिपञ्चसप्तसप्तपञ्च ५७७५३३००००० तुल्याः) कल्पभगणा भवन्ति । द्वियमशराष्टपक्षवसुरसनवह्नियमाः (द्विद्विपञ्चाष्टद्वयष्टषड्नवह्नियमाः २२६६८२८५२२) भौमस्य ( मङ्गलस्य ) कल्पभगणः । कृतवसुनवाष्टनवनवषत्रिनवागेन्दवः । (चतुरष्टनवाष्टनवनवषट् त्रिनव सप्तचन्द्राः १७६३६ee८६८४ (ज्ञशोत्रस्य) बुधश- त्रोच्चस्य) कल्पे भगणा भवन्ति शरेष्ठदद्धिषट्पक्षद्विकृतरस रामाः (पञ्चपञ्चचतुःषट्- द्विद्विवेदषड़ग्नयः ३६४२२६४५५) जीवस्य (गुरोः) कल्पभगणा भवन्ति । यमलगो वेदनवाष्टांग्निपक्षयमखनगाः ( द्विनवचतुर्नवाष्टत्रिद्विद्वशून्यसप्त ( ७०२२३८६४६२) सितशीघ्रस्य (शुक्रशघ्रोच्चस्य, )अष्टनवपक्षमुनिररसशरसमनवः (अष्टनवद्विसप्तषट्- पञ्चषट्चतुर्दश (१४६५६७२७८)अर्कपुत्रस्य(शनैश्वरस्य),खाष्टाब्धयःशून्याश्चत्वारः