पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० ब्रह्मस्फुटसिद्धान्ते - इदानीं रविबुधसितानां कुजगुरुशनिशीघ्रोच्चानां च प्राव्रजतां कल्पभगणामाह । कल्पेऽर्कबुधसितानां भगणाः शून्यानि सप्तरदवेदाः ४३२००००००० । प्राग्व्रजतां कुजगुरुशनिशघ्रोच्चानां स्वकक्षासु ॥१५॥ वा भा--कल्पाख्ये कालप्रमाणे, भगणश्चक्रपरिवर्ताः, केषामकं-बुधसि तानां, कियन्तस्ते इत्याह शून्यानि सप्त रदवेदाः ४३२००००००० प्राग्व्रजतां पूर्वाभिमुख गच्छतां स्वगत्येत्यर्थः, स्वकक्षासु स्वेषु भ्रमणप्रदेशेषु । न केवलमर्कादी नामेते भगणाः स्युः कुजगुरुशनिशीत्रोच्चानाञ्च, यतो रविकक्षायामेव तेषां शीघ्रप्रतिमण्डलमध्यभ्रमणस्। ( सर्वमेतद्गोले छेदके वा प्रतिपादयेत् ) भयञ्जतुल्यया परगत्या, यतोऽहोरात्रेणैव स्वकक्षायां पूरयन्तो दृश्यन्ते। अतएवोक्तं प्राग्व्रजतामिति, एवं सर्वेषां वक्ष्यमाणनामपि योज्यम् । भगणश्च खेरवियोगभगणभोगोपलब्धासकृद्रविचन्द्रयोगोपलब्धा चन्द्रभगणाःशेष ग्रहाणाम् । चन्द्रयोगोपलब्धा शीघ्रमंदानां परमफलोत्पत्यनुत्पत्तिभ्याम् । पातानां परमविक्षेपा विक्षिप्त्युपलब्ध्यभियोगाशयेन च ज्ञेयाः । सूक्ष्मावयवोपलब्धा च। अथवा भगणादिष्वस्माकमागम एव प्रमाणमिति । पञ्चाम्बराणि गुणगुण-पञ्चमुनिस्वशरैमितः शशिनः ५७e५३३०००००। भौमस्य द्वियमशराष्टपक्षबसुरसनवद्वियमाः २२६६८२८५२२ ॥१६॥ चन्द्रभगण:५७७५३३०००.०० । कुजभगणः२२e६८२८५२२ एतेन चन्द्रभौमयोः कल्पे भगणसंख्या प्रति- पादिता । कृतवसुनवtष्टनवनवषत्रिनवनगेन्दवोज्ञ शीघ्रस्य १७६३६६e८६८४। जीवस्य शरेषादधिषट् पक्षद्विकृतरसरामाः ३६४२२६४५५ ॥१७॥ बुधशघ्रभगण: १६४३६&&८२८४ ।। बृहस्पतिभगणाः ३६४२२६४५५ । इदानीं शुक्र शीघ्र शनैश्वरयोः कल्पभगणानाह सितशीघ्रस्य यमलगोवेदनाष्टाग्निपक्षयमखनगाः ७०२२३८४६२। टन वपक्षमुनिरसशररसमनवोऽर्कपुत्रस्य १४६५६७२६८ १८ ॥ शुक्र शोघ्रभगणाः ७०२२३=९४६२ । शनैश्वरभगणा: १४६५६७२६८ । इदानीं रव्यादिमन्दानां चन्द्रादिपालानां च कल्पभगणानाह । खाटाब्धयो ४८० वसुशरवसुपञ्चखचन्द्रवसुवसुससुद्धः ४८८१०५८५८ । द्विनवयम् २२ द्वित्रिगुणाः ३३२ शरेषु वसव ८५५ स्त्रिपञ्चरसाः ६५३ ॥१६॥ खाष्टोदघयोर्कमन्दस्य ४८० । वसुशरपंचखचन्द्रवसुवसु-समुद्रः ४६८१० ५८५८ चन्द्रमन्दस्य ।