पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ ब्राह्मस्फुटसिद्धान्ते अत्रोपपत्ति त्रैराशिकेन यशू नदिनमनेनोनदिनोदिता घटिकास्तदाऽधिकदिनमानेन किं युतिकाले ऽधिकदिनदित षटका भवन्ति । एवमत्राचार्येण ग्रहयोह्नमानगत घटिकामध्ये तुल्या निष्पत्तिरीकृता स्वल्पान्तरतः । यदि लब्धघटिका अधिक- दिनगतघटिकातोऽधिका तदा युतिर्गताऽन्यथैध्येति स्फुटा । द्वयोरन्तरमाद्यसंज कल्पितम् । इष्टघटिकाभिमुंह प्रचाल्य पुनरन्तरमन्यसंज्ञ कृत्वाऽनुगतः । यद्याद्यान्यान्तरतुल्येनापचयेनेष्टघटिकास्तदाऽऽद्यसमापचयेन कि फलनाडिकाभि- राद्यकालात् प्राक्पश्चाद्वाऽन्तरस्याऽऽद्यसमापचयादभावोऽतस्तत्र युतिरिति ग्रहगति शरगत्योवैलक्षण्यादसकृत् कर्म समुचितं तत्स्वल्पान्तरादाचार्यांस्त्यक्तमिति । विजातीययोराद्यान्ययोरन्तरे बोजक्रियया तयोर्युतिरुत्पद्यते तया तदा भक्त फलं ग्राह्यामि यादि स्फुटं बीजविदामिति ॥२२-२४॥ वि.भा–यस्मिन् काले कदम्बप्रोतोयौ समकलौ ग्रहो जातौ तस्मिन् काले स्वदे श्यराश्युदयैर्लग्नं साध्यम् । गोलभ्रमरणेन तौ ग्रहौ पूर्व क्षितिजस्थौ कृत्वा तयोरुदय लग्ने सध्ये, ततस्तात्कालिकलग्नग्रहृदयलग्नान्तरे लग्नात्कालसाधनवद् ग्रह- दिनघटिकाः साध्यास्ता एवात्र दिनोदिता घटिका बोध्याः । पूर्वमेव तयो दिनमान घटिका आनीता एव । यस्य ग्रहस्य दिनप्रमाणमल्पं तस्य दिनगतघटिका ऊनदिनोदिता घटिकाः। यस्य दिनप्रमाणमधिकं तस्य दिनगतघटिका अधिकदिनो दिताः। अल्पदनप्रमाणमूनदिनमधिकदिनप्रमाणमधिक्रदिनमिति । प्रधिकदिनाव ऊनदिनोदितगुणितात् ऊनदिनहृताद्यल्लब्धं तद्यद्यघिक दिनोदितादधिकं तदा युतिः प्राग्जाता गतेत्यर्थः । यद्यतं तदा युति: पश्चात् (एष्येत्यर्थः} लब्ध घटिकाया अधिकदिनदितघटिकायाश्चान्तरमाद्यसंज्ञो भवति । इष्टघटिका फलोनयुतयोशंयोरेवमन्यसंज्ञक भवति । एवमुक्तं भवति गतयुतो गता एष्ययुतवेष्या इष्टघटका: कल्प्यास्ताभिस्तौ ग्रहौ प्रचाल्य तयोरुदथलग्नादिन । तयोर्गतघटिका आनीय ऊनदिनोदितगुणितादित्यादिना पुनरंतरं साध्यं तदन्यसंज्ञकं भवति । यद्यन्तरद्वयेनापि प्राक् (गता) पश्चात् (एष्या) वा युतिस्तदे: ष्टगुणितादाद्यांन्तादन्तरेण (प्राधान्ययोरन्तरेण) ह्ताव (भक्ता) फलनाड़िका आद्यनशासमलिप्तिककालाद्गता वैष्या भवन्ति । अन्यथैकेन यदि गता युतिरपरे- यैष्या तदाऽऽद्यान्ययोर्चे त्या भक्तात् फलनाडिका च याः। अत्रोपपत्ति यवून दिनमानेनोनदिनोदितघटिका लभ्यन्ते तदाऽधिकदिनमानेत कि समागच्छन्ति युतिकालेऽधेिकदिनोदितषटघ । अत्राचार्येण ग्रहयो दिनमानगतघटिकामध्ये स्वल्पान्तरातूल्य निष्पत्तिः स्वकृता। यदि लब्ध