पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहयुत्यधिकारः ५४ पूर्व क्षितिजे लग्नं भवति । उदयलग्ने ग्रहविम्बोदयः, सषड्भस्तलग्ने चास्तः । तदन्तरे स्वोदरें "ऊनस्य भोग्योऽधिकभुक्तयुक्तोमध्योदयाढ्यः”रित्यनेनया घटिकास्ता ग्रहदिनमानघटिकाः । तावत्कालपर्यन्तं क्षितिजोपरि ग्रहबिम्यं भ्रमतीति ग्रहदिनमानसंज्ञ समुचितैव, सिद्धान्तशेखरे “दृक्कर्मणो सदृश• लिप्तिकयो विघाय साध्ये पृथक् खलु तयोरुदयास्तलग्ने । आधे सषड्ग्रहनिजास्त- लिग्न तुल्यं कृत्वोद्यैर्निजदिने ग्रहयोः प्रसाध्ये” श्रपयुक्तमिदं समग्नोतीययुति शोधनार्थं समकलयोरैहयोदिनमानसघनमप्युपनम् । अथ यस्योदयलग्नमूनं स ग्रहः प्रथममुदेति, यस्याधिकं सोऽनन्तरमिति, तथा यस्यास्तलग्नमूनं स प्रथममस्तमेति, यस्य चाधिकं सोऽनन्तरमिति, यस्य प्रह बिम्बस्य द्वितीयग्रहबिम्बापेक्षया प्रथममुदयः प्रथममेवास्तमयश्च तस्याग्रत एव योगसम्भावना । यस्य च प्रथममुदयोऽन्यग्रहस्यानन्तरं चास्तमयः स च युक्तो भूत्वाऽग्रतोगत इति विगतो योगः, सिद्धान्तशेखरे '‘ग्रहयोदरुदयास्यलग्नयोरूहं यच्च निजास्तलग्नकम् । ऊनं युतिरेष्यतो तदा विगता चाभ्यधिके प्रकीत्तिता" श्रीपति- नाप्यनेनाचार्योक्तयुतेर्गतैष्यत्वप्रतिपादनसरणिरेव स्वीकृतेति उदयलग्नं ग्रहविषोदयेऽस्तलग्नंच ग्रहास्तकालेऽन ग्रहद उदयलग्नस्य चलनमूदयलग्नास्तलग्नान्तरसमम् । तदन्तरं यथाऽस्य भवति तथा ऽस्तलग्नस्य न्यूनाधिक्यं कल्पनोयम् । अर्थादस्तोदयलग्नयो रेकतोऽन्यस्य विशोधनेन यत्रापशेषस्तत्र वान्यस्याल्पत्वमिति । यथा यद्यस्तलग्नं तुलान्तम् =७, उदय लग्नम् २ वृषन्तम्, ७-२=५, २–७–७ तेनोदय लग्नमल्पमस्तलग्नं चाधिकमि तिबोध्यम् । ततो यदि प्रहदिनमानघटकाभिस्तदुदयलग्नस्य गतिरुदयास्तलग्ना- न्तरसमा लभ्यते तदेकया था किमिति समागच्छत्येकरूपवेगेनैकघट्यां स्वस्वोदय लग्नगतिः। धृदयलग्नगत्योरन्तरेणेकघटो लभ्यते तदा स्वोदय लग्नयोरन्तरेण किं समागच्छन्ति समजतीययुतकाले गता एष्या वा घट्यस्तभिबृतिकाले स्वोदयलग्नस्य यवच्चलनं तावत्संस्कारेण समशोतीय समलिप्तिको ग्रहौ भवत एव । एवमुदयलग्नस्य समानवेगेन चलन स्वीकृत्यानुपातेन स्थूलो युतिका भवेत् । आयनाक्षदृक्कर्मणोः प्रतिक्षणं वैलक्षण्यादुदयलग्नगतेरसमानवेगत्वादिति विजातीययोरुदयलग्नगत्योरन्तरं तद्योगसमं भवतीति धनर्णयोरन्तरमेव योग इत्यनेनैव स्फुटम् रात्राविष्टलग्नादून: सषड्भेष्टलग्नाद्योऽधिकः सक्षितिजोपरिगF त्वाद् दृश्यो भवति । एवं ‘ग्रहस्याऽल्पेशरे क्रान्तिवृत्तीयस्थानासन्न एवोदयलग्ने- ऽन्यथा स्वेष्टसग्ना!द्यस्योदय लग्नमल्पमतन्नग्नं चचिकं स एव दृश्य इति युक्ति युक्तं ग्राह्यम् । सिद्धान्तशेखरे "स्वमस्तलग्नं ह्यदयास्य लग्नाटणस्यमूनं घनम यथा स्यात् । तदन्तरोत्थाः कलिका विभक्ताः पृथक् पृथक् स्त्रस्वदनेन लब्धम् ।” सामनजात्योर्विवरेण भाजिता योगेन वृद्धिक्षयसंज्ञयोस्तयोः ।