पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रशृङ्गोन्नत्यविकारः ४८७ इदानीं शुद्धोन्नत्युपयुक्तस्पष्टभुजस्य कोटिकर्णयोश्च साधनमाह पृथगन्तरसंयोगौ भुजो यतोऽर्कात् शशी समान्यदिशोः । दृग्ज्यावर्गात् स्वात् स्वात् पृथक् स्वबर्ग विशोध्य पदे ॥७॥ वियुतसहिते रवीन्द्वोरेकान्यकपालसंस्थयोराद्यः । रविशशिदृक्शङ्क्यन्तरमभ्योऽदृग्दृश्यशङ्क्वैक्यम् ॥८।। अद्यान्यवनीयोयुतिमूलं पूर्वापरा भुजा कोटिः । भुजकोटिकृतियुतिपदं तिर्यक् कर्णाऽस्य चन्द्रोऽग्रे । सु. भा.-तयोः पृथक्स्थयोभु जयोः समान्यदिशोरन्तरसंयोगौ क्रमशो भुजः स्पष्टो भुजो भवेत् । अर्कोद्यतो यद्दिशि शशी सैव भुजस्य दिग्ज्ञया। स्वान् स्वाद् इरज्यावर्गात् पृथक्स्थाषितस्य स्वस्वभुजस्य वर्गे विशोध्य पदे ग्राह्य । एवं पूर्वापर रेखायां रविशशिनोः कोटी भवतः । एकान्यकपालसंस्थयो रवीन्द्वोस्तयो कोट्यो वियुतसहिते ये भवतः स आद्यो ज्ञ य: । रविचन्द्रयोरेककपालस्थयोः कोटयोरन्तरं विभिन्नकपालस्थयोश्च योग आद्यो भवतीत्यर्थः । रविशशिदृकशड्क्वन्तरमन्यो भवति । अर्थाद्यदि रविचन्द्रौ द्वौ क्षितिजादुपरि तदा तयोढं शङ्क्व एकजातीय भवतोऽतस्तयोरतरमन्यसंज्ञ भवति । यदि एकः क्षितिजादुपरि अन्यः क्षितिजाद घस्तदाऽघःस्थस्याहशङ्कुध्र्वस्थस्य दृक्शङ्कुः । अतोऽनयोरैक्यं तदान्यो भवति । आद्यान्ययोर्वरैयुतिमूलं भुजात् पूर्वंसाधिताल कोटिः पूर्वापरा भवति । भुज कोटिकृतियुतिपदं तिर्यक् कर्णः स्यात् । अस्य कर्णस्याग्रे चन्द्रश्चन्द्रबिंबकेन्द्र मिति । अत्रोपपत्तिः । अत्रैकस्मिन् गोले रविचन्द्रौ प्रकल्प्य बिम्बान्तरसूत्ररूपः कर्णः साध्यते । रविकेन्द्राच्चन्द्रशङ्कुपरि यो लम्बस्तन्मूलाच्चन्द्रबिम्बकेन्द्रपर्यन्तमन्यसंज्ञ। लम्बमूलात् पूर्वापररेखायाः समानान्तरा कृता या रेखा तस्या उपरि रविकेन्द्रात् कृतो यो द्वितीयो लम्बस्तन्मूलात् प्रथमलम्बमूलपर्यन्तमेव क्षेत्रयुक्त्याऽऽद्यसंज्ञा। तयो राद्यान्ययोर्वेगैयुतेः पदं द्वितीयलम्बमूलाच्चन्द्रबिम्बकेन्द्रपर्यः रेखा द्वितीयलम्बो परि रेखागणितैकादशाध्याययुक्त्या लम्बरूपा भवति । द्वितीयलम्बश्च पूर्वेसाधि तस्पष्टभुजसमः । तयोर्वेगंयोगपदमेकगोलीयरविचन्द्रयो बिम्बान्तरसूत्रं कण भवति । एवमत्र मुजकोटिकणं यस्मिन् धरातले तत् क्षितिजघरातले समप्रोत घरातलवन्न लम्बरूपमतो द्रष्टुः संमुखेनेदं क्षेत्रमादर्शवत् । अतएवास्य क्षेत्रस्य भास्करेण स्वश्रृंगोन्नतो खंडनं कृतम् । रवीन्द्रन्तराधेज्या द्विगुणाऽयमेव कणों भवति । भुजकर्णवर्गान्तरपदं चेयमेव कोटिरिति श्रुङ्गोन्नत्युत्तराधिकारे प्रायण ।