न्तरं यत् तज्ज्या इन्हुपक्रमज्या शशिनः स्पष्टापमज्या रविवत् स्वाहोरात्रार्धेतश्चन्द्र स्य बिम्बीयाहोरात्रवृत्ताद्भवति । अत्रोपपत्तिः। गणितागत कदम्बश्नोतीयश्चन्द्रशर एव ध्रुवाभिमुख आचार्याः प्रकल्पित:। तत: स्थानीयक्रान्तिशरयोः संस्कारेण बिबाहोरात्रंवृत्तपर्यन्तं चन्द्रस्पटुक्रान्तिरानीता । अत्र ‘ब्रह्मगुप्तादिभिः स्वल्पान्तरत्वान्न कृतः स्फुटः' इत्यादि भास्करवचनं प्रसिद्धमिति ।।५। वि. भा.-समान्यदिशोः (तुल्यदिक्कयोभिन्नदिकयोश्च) विक्षेपशश्यपक्रम- धनुषोः (चन्द्रशरान्तिचापयोः) योगोऽतरं यद् भवत तज्ज्या इन्हुपक्रमज्या (चन्द्रस्य समष्टकान्तिध्या) रविवत् स्वाहोरात्रार्धतः (चन्द्रस्य बिम्बीयाहोरात्रवृत्ता) भवतीति. ॥५॥ अत्रोपपत्तिः चन्द्रबिम्बकेन्द्रोपरिगतं कदम्बश्रोतवृत्तं क्रान्तिवृत्ते यत्र लगति तदेव चन्द्र स्थानम् । चन्द्रस्थानोपरिगतं ध्रुवप्रोतवृत्तं नाडीवृत्ते यत्र लगति तस्माच्चन्द्रस्थानं यावच्चन्द्रमध्यमक्रान्तिः । तथा चन्द्रबिम्बकेन्द्रोपर्यंहोरात्रवृत्तं (बिम्बीयाहोरा प्रवृत्तं) चन्द्रस्थानोपरि चाहोरात्रवृत्तं (स्थानीयाहोरात्रवृत्तं) कार्यम् । चन्द्रबिम्ब- फेन्द्रोपरिगतं ध्रुवम्रोतवृत्तं स्थानीयाहोरात्रवृत्ते यत्र लगति तस्माच्चन्द्रबिम्बकेन्द्रं यावत् वा स्थानौपरिगतं भुवनोतवृत्तं बिम्बीयाहोरात्रवृत्ते यत्र लगति तस्मात् स्थानं यावत् स्पष्टशरः, चन्द्रबिम्बकेन्द्राच्चन्द्रस्थानं यावकदम्बप्रोतवृत्ते मध्यमशरः। चन्द्रस्थानान्नाडीवृत्तावचिस्थानगत ध्रुवप्रोतवृत्ते चन्द्रमध्यक्रान्तिः । चन्द्रस्थाना द्विम्बीयाहोरात्रवृत्तपर्यन्तं स्थानमतध्रुवम्रोतवृत्त एव स्पष्टशरः । अनयोरेक दिक्कयोर्योगे भिन्नदिक्कयोद्यान्तरे कृते नाडीवृत्तस्थानगतश्रुवनोत्तवृत्तयोः सम्पा ताव स्थानगतध्रुवम्रोतवृत्तबिम्बीयाहोरात्रवृत्तयोः सम्पातं यावत्स्पष्टा क्रान्तिर्भवेत् परमाचार्येण चन्द्रस्पष्टशरमध्यमशरयोरभेदत्वं स्वीकृत्य चन्द्रस्पष्टा क्रान्ति रानीताऽतो न समीचीना तेनैव हेतुना भास्कराचार्येण "ब्रह्मगुप्तादिभिः स्वल्पान्तर- त्वान्न कृतः स्फुटः” अनेन ब्रह्मगुप्तादिर देमतं न समीचीनमिति प्रतिपादितम् । सिद्धान्तशेखरे "शीतांश्वपक्रमधनुः शरयोः समसस्तुल्याशयोविवरमन्यदिशयो स्ततो ज्या । सा शीतगोः स्फुटमपक्रमशिञ्जिनी स्याद् युज्या कुजा वरदलादितया ऽकंबच्चॐ श्रीपत्युक्तमिदमाचार्योवतानुरूपमेव । सूर्यसिद्धान्तेऽपि "विक्षेपापक मैकत्वे क्रान्तिविक्षेपसंयुता। दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता” भगवता सूर्येणानेन ब्रह्मगुप्तादिकथितप्रकारसदृश एव प्रकारोऽभिहितोऽस्ति, भास्कराचार्येण "त्रिज्यावर्गादयनवलनज्याकृतिं प्रोह्य मूलमित्यादिना ” स्पष्टशरानयनं कृत्वा ततः स्पष्टा क्रान्तिः स्फुटशरयुत इत्यादिना ” स्पष्टतान्यानयनं ' सद्गुरमध्यमन्त्योः संस्कारात्कतं तत्समीचीनमेवेति विज्ञ विभावनीयमिति ।
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०१
दिखावट