पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः २५ अथ चन्द्र भगणोपपत्तिः । अथ ग्रहवेधाथ समुपयुक्तस्थाने निमिते वेधालये नाडीवृत्तक्रान्तिवृत्त कदम्बश्रोतवृत्तादिरचितं विपुलं गोलयत्र कार्यं, तत्र हन्ति वृत्ते चक्रांशा: ३६० राश्यंशकलादयो नाडीवृत्ते च दण्डपलादयोऽङ्कनीयाःतद्यन्त्र केनचिदाधार द्वितयेन केन्द्रगतनलिकया च स्थिरीकृत्य गोलकेन्द्रं ध्रुवाभिमुखीं यष्टीं कृत्वा रात्रौ तगोलकेन्द्रगतदृष्टया रेवतीतारामवलोकयेत्। स गोलयन्त्रीयक्रान्तिवृत्ते यत्र परिणता तत्रैव मेषादिरकनीयः । तथा च गोलमध्यगतदृष्टयं व चन्द्रवेधकरणेन यत्र गोलयन्त्रे परिणतो भवेत्तदुपरिगतं कदम्बश्रोतवृत्तं (वेधवृत्तं) तद्गोलोय क्रान्तिवृत्ते यत्र लगति स एव वेधागतः स्पष्टचन्द्रस्तद्राश्यादिमानं मेषादेयंभवति तद्विगणय्य ग्राह्यमेवं राश्यादिकः स्पष्टश्चन्द्रो विदितो जातः, एवं द्वितीयदिनेऽपि राश्यादिस्पष्टचन्द्रो वेदितव्यः । एताभ्यां विदितस्पष्टचन्द्राभ्यां विदितचन्द्र मन्दोच्चाच्च ‘स्फुटं ग्रहं मध्यखगमि' त्यादिना दिनद्वयजो मध्यमचन्द्रौ विदितौ भवेत, तयोरन्तरमेकदिनजा चन्द्रमध्यमगतिर्भवेत्ततोऽनुपातेन ‘यथैकेन दिनेनेयं चन्द्रमध्यमगतलेभ्यते तदा कल्पदिनैः किम्’ इत्यनेन समागच्छन्ति कल्पे चन्द्र भगणाः । परमत्रोपपत्तौ वेधद्वारा य: स्पष्टचन्द्रो गृहीतः स च वेधगोलीय (पृष्ठीय त्रिज्यागोलोय) स्पष्टचन्द्रः, परमपेक्षितस्तु भूकंन्द्रिक त्रिज्यागोलीयःअतस्तयोर्वध गोलीय (भूपृष्टयगोलीय) स्पष्टचन्द्रभूकंन्द्रिकत्रिज्यागोलोयस्पष्टचन्द्रयोरन्तरानयनं कृत्वा तेन सस्कृतो वेधगोलीयस्पष्टचन्द्रो भूकेन्द्रिकत्रिज्यागोलोय(भूगर्भगोलीय)स्पष्ट चन्द्रो भवेत् । एवं वेधगोलीय द्वितीयदिनजस्पष्टचन्द्राद् भूगर्भगोलीयस्पष्टचन्द्रो वेदितव्यस्ततो विदितभूगर्भगोलीयदिनद्वयजस्पष्टचन्द्राभ्यां पृथक्पृथक् ‘स्फुटं ग्रहं मध्यखगमि' त्यादिना दिनद्वयजौ मध्यमचन्द्रौ भूगर्भगोलीयौ भवेतां, ततस्तदन्तर (मध्यमचन्द्रान्तर)-वशात् पूर्ववत्कल्पे चन्द्रभगणा भवितुमर्हन्ति । अथाधुना वेधगोलोयस्पष्टचन्द्राद् भूगर्भगोलीयस्पष्टचन्द्रज्ञानार्थमुपपत्तिः । पूर्वी प्रपत्तौ स्पष्टचन्द्रस्य चर्चाऽस्ति । तेन गोलद्वयीययोः(वेधगोलीय भूगर्भगोलीययोः स्पष्टचन्द्रयोरन्तरानयनं क्रियते । परमेशदर्थं योषपत्तिः सैव सर्वेषां ग्रहाणां (वेधगोलीयग्रहेभ्यो भूगर्भगोलीयग्रहाणां ) ज्ञानार्थं भवतीति बोध्या वेधगोले दृग्वशेन ( दृष्ट्या ) परिणतचन्द्रबिम्बस्य स्पष्टभोगचिह्न (चन्द्रबिम्बोपरिगतकदम्बश्रोतवृत्तं क्रान्तिवृते यत्र लगति स बिन्दुः) तद्गोलीय- स्पष्टचन्द्रः । एवं भूगर्भगोलेऽपि स्पष्टचन्द्रस्थानं ज्ञेयम् । अथ परिभाषः वेधगोलीयचन्द्रस्थानम् = स्थान, स्थानीयदृग्वृत्तधरतलेन च्छिन्नस्य भूगर्भगोलस्य च्छेदनं तद्गोलीयदृग्वृत्तम् । तस्य ( तद्गोलीयदृग्वत्तस्य ) भूगर्भ