पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ब्राह्मस्फुटसिद्धान्ते गोलीय क्रान्तिवृत्तस्य च योगबिन्दुः=, भूगर्भात् ष-बिन्दुगता रेखा = पसंज्ञका, दृष्टितः स्थानगता रेखा च फसंज्ञका, अथ प फ रेखे समान्तरे ( रेखागणितैकादशाध्याययुक्त्या), भूगर्भदृष्टि स्थान भ्यां रेवतोगते रेखे च समानान्तरे। अतो भूगर्भदृष्टिस्थानलग्नकोणयोः साम्यात् सिद्धं यद् भूगर्भगोले (भगोले) रेवतीतो ष बिन्दुपर्यन्तं वेधगोलीयस्पष्ट चन्द्रतुल्यम ( भगोलीयरेवतीतो र बिन्दुपर्यन्तम् = वेघगालोयरेवतीतः स्थानपर्यन्तम्) केन्द्रलग्नकोणस्य चापमानत्वात् । स्थानीयनतांशाः = ष बिन्दू त्पन्ननतांशाः (प,फ रेखयोः समानान्तरत्वाद्स च नतांशो वेधगोले मापनेन ज्ञातः तथा चन्द्रबिम्बयनतांश ष-बिन्दुत्पन्ननतांशचपाभ्यां जायमानः खस्वस्तिकलग्न कोणो यावान् वेधगोले तावानेव भूगर्भगोलेऽपि (गोलद्वये घरातलैकत्वात्) स च नतांशोत्पन्नकोणो वेधगोले मापनेन विज्ञयः । अतो भूगर्भगोलपृष्ठे जयमान त्रिभुजे त्रिज्यागुणाद्धरणिकोटिगुणादित्यादि विलोमेन परिणतचन्द्रबिम्ब केन्द्र-ष-बिन्दुगतवृत्तीयाऽधारचपज्ञानं जातम् । तथा च वेधगोलीयशरक्रान्तिवृत्तः घरातलान्तरयोशंनाद् भूगर्भगोले शरज्ञानम् (वेधगोलोयभूगर्भगोलीययोर्नाड़ी वृत्तधरातलयोरन्तरस्य वेधगोलीयक्रान्तेश्च ज्ञानाद् भूगर्भगोलीयक्रान्तिज्ञानार्थं या युक्तिस्तादृश्येवात्र शरज्ञानार्थमस्त ) तेन चपजात्ययुक्त्या भूगर्भगोलीय स्पष्टचन्द्र-षबिन्द्वोरन्तरचापस्य संस्कारसंज्ञकस्य ज्ञानम् । अन्तरम्=संस्कारचापः (७)क्षेत्रम् अत: वेधगोलीय स्पचन्द्र +संस्कारचाः = भूगर्भगोलीयस्पचन्द्रः। नहि दाष्टिक गोलेऽपि स्थानोद्भवा नतांशा वेधेन ज्ञातु” शक्याः । स्थानस्याप्रत्यक्षत्वात् । वेधस्तु प्रत्यक्षे वस्तुनि भवति । अतस्त- त्रत्यवित्रिभग्रहान्तर दृक्षेपवशात् त्रिको णमित्या विज्ञेयम् । अथ संस्कार वापस्य धनर्णव्यवस्था। तत्र परिभाषा: । बेधगोलीय-क्रान्तिवृत्तम्=इष्टक्रान्तिवृत्तम् । भूगर्भगोलीयक्रान्तिवृत्तम् वास्तवक्रान्तिवृत्तम् । बिम्बोयकर्णगोलीयक्रान्तिवृत्तम्=वास्तवक्रान्तिवृत्तम् । परेखा वधिता वास्तवक्रान्तिवृत्ते यत्र लगति तत्र ष-बिन्दुः । चन्द्रबिम्ब-केन्द्रादिष्ट- क्रान्तिवृत्तधरातले या शरज्या लम्बस्तन्मूलं=क्ष । अयं बिन्दुर्वोधतायां फ-रेखाया- मेव स्यात् । फरेखा तु स्थानोयहवृत्तधरातले उक्तशरज्या वधताऽवधता वा वास्तवक्रान्तिवृत्तधरातले लम्बः स्यात् । अत्रेदमुक्तं भवति स्थानीयदृग्वृत्तधरातल