पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० ब्राह्मस्फुटसिद्धान्ते इदानीमिष्टग्रासानयनमाह। भुक्त्यन्तरमिट्टोनस्थितिदलघटिकागुणं हृतं षष्ट्या । बाहुः प्राग्वत् तस्पलहीनयुतैः सूर्यशशिपातैः ॥ ११ ॥ ॥ तात्कालिकविक्षेपः कोटिस्तद्वर्णयुतिपदं कर्णः । मानैक्यार्धात् कथं विशोध्य तात्कालिको ग्रासः १२ ॥ सु० भा०-इष्टी स्पाशिकादिकं तत् सजातीयं स्थितिदलं च गृहीत्वान्तरं कत्तव्यम् । शेषं स्पष्टार्थम् । अत्रोपपत्त्यर्थं भास्करभुजानयनं द्रष्टव्यम् ।। ११-१२॥ वि. भा.-भुत्तचन्तरं ( रविचन्द्रयोर्गत्यन्तरं ) इष्टनस्थितिदलघटिकागुणं (इट्रहितस्थित्यर्धघष्ट्या गुणितं) षष्ट्या हृतं (षष्टिभक्त) तदा बाहुः (भुजः) भवत्यर्थात् स्पर्शादनन्तरं यावतीष्विष्टघटिकासु ग्रासज्ञानमपेक्षितं तावतीभिघटी भी रहितेन स्थित्यर्धेन गुणितं रविचन्द्रयोर्गत्यन्तरं षष्टिभक्त तदा भुजो भवतीति, ततः फलेनानेन सूर्यचन्द्रपातान् प्रचाल्य तात्कालिकश्चन्द्रशरः साध्यः सचकोटिः तयोः (भुजकोट्योः) वर्गयोगमूलं कर्णः स्यात् । मानैक्यार्धात् कर्णं विशोध्य शेषस्तात्कालिको ग्रासः (इग्रासो) भवतीति ।। ११-१२ स्पर्शानन्तरं यावतीभिर्घटिकाभिप्रेस- ज्ञानमपेक्षितं तावतीभिघंटीभी रहितं स्थि त्यर्थं कार्यं शेषेणाऽनुपातो यदि षष्टिघटीभी रविचन्द्रयोर्गत्यन्तरकला लभ्यन्ते तदेष्टोन स्थित्यर्धघटीभिः किमित्यनुपातेन यत्फल स। ॐ भुजो भवति, अनुपातागत फलेन सूर्यचन्द्र पातान् प्रचाल्य तात्कालिकश्चन्द्रशरः साध्यः सा कोटिःतयोर्वगंयोगसूलं कर्णः स्यात् । मानंक्यार्धातं कर्णस्य संशोधनेष्टप्रासो भवेत् । चं=चन्द्रकेन्द्रम् । भू–भूभाकेन्द्रम् । अचंभूभाचन्द्र केन्द्रयोरन्तरमुः =कर्णः। चर= चन्द्रकेन्द्रोपरिगत कदम्व प्रोतवृत्ते