पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ एतेन ‘मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्वभुक्तित:।तच्छेषं विवरेणासौ हन्यात्रिज्यान्यकर्णयों' रित्यादिसूर्यसिद्धान्तोक्त शीव्रगतिफलमुपपद्यते । अत्रैव गूढ़ार्थप्रकाशे रङ्गनाथस्तु तात्कालिकया गत्या शोव्रगतिफलं (१) तमोयरणेन समानय “त्रिज्याभ्यकर्णयो’ रित्यत्र सौरवचसि त्रिज्या शब्देन शोत्रफलकोटिज्यां परिगृह्य सीरमतं समर्थयति । अत्रैव सौरवासनायां कम करैस्तु लल्लमतमण्डनार्थं त्रिज्यामेवाङ्गीकृत्य बहूपपादितम् । तन्नादरणीय मिति मुधावषिण्यां तत्प्रणेतारः परमगुरुचरण वदन्ति । त्रिषु राशिषु फलशोध नेन या ज्या सैवत्र त्रिज्येत्यर्थं विधाय रङ्गनायमतं समर्थयन्ति च अन्यथा "वृत्तद्वययोगो द्युचरे मध्यैव गतिः स्पष्टे' ति लल्लवचसा वृत्तद्वप्रयोग एव सौरमतेन पि मध्यगतिः स्पष्टगतेः समा भवेत् । तन्न समीचीनम् । 'कक्षामध्य गतिर्यग्नेखाप्रतिवृत्तसंपाते” तस्य समवसिद्धेः । इदानीं स्पष्टीकरणमिदं कस्मै न देयमित्याह देयमसुताय नेदं शपथैरपि दत्तसुकृतनाशाय । याश्राविवाहजतकफलस्फुटत्वं यतः स्पष्टेः ॥४५ ॥ वा. भा.-वासनाभाष्यं नास्ति । वि.भा--यतः (यस्मात् कारणात्) स्पष्ट: (स्पष्टग्रहैरेव) यात्राविवाह जातकफलानां स्फुटत्वं भवति, अतः शपथैरपीदं स्पष्टीकरण असुताय (अपुत्राय) न देयमन्यथा दत्तसुकृतनाशाय (दातुः शोभनकर्मनाशाय) भवति, केवलं भक्ताय स्वान्ते चिरवासिने शिष्याय देयमिदमिति ॥४५॥ अब स्पष्टीकरण किसके लिये नहीं देना चाहिये कहते हैं हि- भा--जिस कारण से स्पष्टग्रहों ही से यात्राविवाहजातकफलों की स्फुटना होती है, इसःलये शपथ खाने से भी इस स्पष्टीकरण को अपुत्र के लिये नहीं देना चाहिये अर्थात् भक्त, बहुत दिनों तक अपने पास रहने वाले विद्यार्थियों के लिये देना चाहिये, अपुत्र को देने से किये हुये सुन्दर कर्मों का नाश होता है इति ।४५।। इदानीमायंभटादीनां दोषमाह मेषादितः प्रवृत्ता नार्यभटस्य स्फुटा युगस्यादौ ओषेणस्य कुजाद्याः खेटाः सर्वे हि विष्णुचन्द्रस्य ॥४६॥ न दृष्टाः स्पष्टाः श्रीषेणायंभटविष्णुचन्द्रेषु । यस्मात्कुषादयस्ते विदुषां नैवादरस्तस्मात् ॥४७ ॥ । बा--वासनामाष्यं नास्ति ।