पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः २०७ भवेत्, पुनरेतस्मात्स्पष्टग्रहात्पूर्ववन्मन्दस्पष्टस्त्रष्टग्रहौ साध्यो यावदविशेष इति । एवं ज्ञगुरुसौराः (बुधवृहस्पतिशनैश्चराः) स्वफलैः (मन्दफलैः शीघ्रफलैश्च) पूर्ववदसकृत् स्फुटा भवन्ति, बुधमन्दपरिध्यंशः =३८, सुरगुरोः (वृहस्पतेः) =३३, रविजस्य(शनैश्चरस्य) = ३०, विषमपदान्ते, समपदान्ते चार बुधवृहस्पति शनैश्चरमन्दपरिध्यशेषु संस्काराभावः बुधशोत्रषरिध्यंशा:=१३२, वृहस्पतेः=६८, भास्करपुत्रस्य ( शनेः ) =३५, एषामपि बुधवृहस्पतिशनोनां शीघ्रपरिध्यंशेषु संस्काराभावः सर्वदैकरूपत्वात् कुजशीघ्रकेन्द्रपदगतये याल्पज्या (कुजशत्र केन्द्र यस्मिन् पदे भवेत्तत्र गतगम्ययोर्योऽल्पा अंशास्तेषां ज्या कार्या ) सा त्रिभागोनविंशत्यंशरहितैः सप्तभिरंशैः ६४० गुणिता, दलाढ्यराशिज्यया ( पञ्चचत्वरिंशदंशज्यया ) भक्ता प्राप्तांशैमृगकर्यादिशोद्भकेन्द्र कुजमन्दः (कुजमन्दोच्च) क्रमेणाधिको हीनश्च कार्षीःएवं स्पष्टीकरणोपयोगिकुजमन्दोच्च स्फुटं भवति, तत्स्फुटपरिधिः ( तस्य कुजस्य मन्दपरिध्यंशः ) खनगः ७० =त्र्यंशना वेदजिना २४३॥४० अंश आप्तभगोना अर्थान्मन्दोच्चसंस्कारार्थ पूर्व येंऽशा प्राप्तास्तैरूना - (हीनाःस्तद कुजस्य शोत्रस्फुटपरिचिः स्यात् । एवं वक्ष्यमाणं कुजस्य स्पष्टकरणं भवति । मध्ये (गणितागते मध्यमकुजे) ऽर्ध मन्द फलं धनमृणं वा यथागतं देयम् । तच्छीघ्रफलस्यार्ध (तस्मादघूमन्दफलसंस्कृतान्म ध्यकुजाद्यच्छीघ्रफलं तदर्ध) मध्यमे (अर्घमन्दफलसंस्कृतमध्यकुजे) देयम् । पुनरर्थफल द्वयसंस्कृतान्मध्यमाद्यन्मदफलं तत्संस्कृतान्मध्याद्यच्छत्रफलं च ते स फले (सम्पूर्ण) मध्ये (गणितागते ) कुजे देये, ततो बुघवृहस्पतिशनिवदसकृत्कर्म कार्यं यावद विशेषः। तदा क्षितिसुतः (कुजः) स्फुटो भवति, स्फुटा भुक्तिः (स्पष्टगतिः) ग्रहवत्सध्या, दिनान्तरस्पष्टग्रहान्तरमेव तत्समयान्तरले ग्रहस्पष्टगतिर्भव तीति ।३४३५३६-३७-३८, ३, ४०५ अत्रोपपत्तिः ब्रह्मगुप्तोक्तशनेः शीघ्रपरिधिः= ३५, सूर्यसिद्धान्तकारोक्तशनिशीघ्रपरिधिः =:४० , भास्करोक्ततच्छीघ्रपरिध्यंशाः=४०° तथाऽऽचार्योक्तशनिमन्दपरिध्यंशाः =३०° भास्करोक्तशनिमन्दक्षरिध्यंशा: = ५०; शनिपरिध्यंशेषु भास्करेण कथं वैषम्यं कृतमिति त एव ज्ञातुं शक्नुवन्ति, सूर्यसिद्धान्तकारेण शोघ्रान्त्यफलज्याऽपि न स्थिति मनसि धृत्वा समपदान्तविषमपदान्तभेदेन भिन्न भिन्नः परियंशाः पठिता यथा तदुक्तम् । कुजादीनामतः शैघ्यु युग्मान्तेऽद्याग्निदस्रकाः गुणाग्निचन्द्राः स्खनगा द्विरसाक्षीणि गोऽनयः। ओजान्ते द्वित्रियमला द्विविश्वे यमपर्वताः। खतुं दस्रा वियद्देदाः शीघ्रकर्मणि कीत्तिताः ।।