पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ ब्रह्मस्फुटसिद्धान्ते एतच्चासकृत्कृत्वा क्षितिसुते कर्म स्फुटं भवति । कुजादीनां भुक्तिरपि ग्रहवत्स्फुटा कार्या । स्पष्टतरं कर्म प्रदश्यंते तद्यथा स्वदेशे इष्टकालिकाद्भौमे शीघ्राद्भौमं विशोध्य कुजशीघ्रकेन्द्रपदेत्यादिना शीघ्रपरिधेि च स्फुटीकृत्वा ततः प्रथमं मन्दफलमानयेत् । स्वमन्दपरिधिना तदर्धपृथक्स्थे भौमे षड्राश्यूने मन्दकेन्द्र ऋणमधिके धनं कृत्वा ततस्तं स्वशीघ्राद्विशोध्य शत्रफलमानयेत् । तस्याप्यर्धा तत्रैव षड्राश्चूने शीघ्रकेन्द्र धनमधिके ऋणं कृत्वा तस्माद्विकर्मस्फुटाद् मात्स्वमंदोच्च विशोध्य मन्दफलमानयेत् । तद्विकृते मध्यभौमसकलप्राग्वद्धन मृणं च कृत्वा मन्दस्फुटो मध्यमो भवति । ततस्तं स्वशीघ्राद्विशोध्य शीघ्रफलं स्वोपकरणैरानीय तदपि सकलमेव मन्दस्फुटप्राग्वद्धनमृणं वा कार्यम् । एवं कृते स्फुटो भौमो भवति । ततस्तं मध्यं परिकल्पयेत्तमेव स्वशीघ्राद्विशोध्य कुजशोध्र केन्द्रपदयोर्याल्पज्येत्यादिना मन्दः संस्कार्यः शीघ्रपरिधिश्च ततः स्फुटभौममन्दोच्च विशोध्य मन्दफलमनयेत् । तस्यार्धकरणागतं मध्ये धनमृणं कृत्वा ततस्तं शीघ्रा- द्विशोध्य शीघ्रफलं प्राग्वत् तस्याप्यधं तत्रैव ततश्च मन्दशीम्रफले सकले मध्ये भीमे कृत्वा स्फुटः कार्यः । एवं तावद्यावद्विशोध्यः, प्रतिस्फुटीकरणे शीघ्रपरिधिर्मन्दयोः संस्कारः कार्यं । एवं यस्य ग्रहस्य मंदकर्मणा केवलेन स्फुटीकरणं तस्य भुक्तिरपि एकेनैव कर्मणा। यस्य कर्मद्वयेन तस्य भुक्तिरपि कर्मद्वयेन, यस्य कर्म तुष्टयेन तस्य भुक्ति रपि चतुष्टयेन स्फुटा कार्या । कर्मचतुष्टयेनैवात्रेयं वसना भौमः । शश्नमंडलादुच्चे यदा भवति तदा तन्मन्दोच्च यथागतमेव भवति । ततः क्रमेणोपचीयते केन्द्रपदार्थं यावत्ततश्चापचीयते पदान्तं यावदेवं चतुर्थे पदेऽपि द्वितृतीययोश्च वैपरीत्येन पुदसंधिषु । चतुष्टयेऽपि करणागतएवांतरे त्रैराशिककल्पना कृता । मन्दसंस्कारार्थं त्रिभागोनैः सप्तभिर्भागैः दलाढयराशिज्यया शीघ्रपरिधिचतुष्टय पदसंधिषु यथा पठित: । वा पदार्थों इत्यल्प: सर्वेषु तावद्भिरेव यदि भागैरतः सर्वदो- पचीयते । लब्धफलेन यच्च मन्दशीघ्रफलद्वयाधेन प्रथमं कर्म तदपि मन्दफल संस्कारार्थम् । न चात्र वासना गम्येत्येभिर्योगातिशयेनोपलब्धे रवि यदि कारणं स्यादथवागम एव प्रमाणम् । मन्दशीघ्रपरिध्यादिषु यतः शेषग्रहणातिरेकेण भौमस्यायं विधिरिति । वि. भा–सितस्य ( शुक्रस्य) विषमान्ते ( विषमपदान्ते ) मन्दोच्चनीच वृत्तस्य परिधिभागा (मन्दपरिध्यंशाः ) नव € । युग्मान्ते ( समपदान्ते ) मन्द परिध्यंशा रुद्राः ( एकादश ), ओजान्ते ( विषमपदान्ते ) शीघ्रपरिध्यंशाः २६३, युग्मान्ते ( समपदान्ते ) २५८, मन्दफलात्संस्कृतो मध्यमो मध्यः स्फुटः ( मन्दस्पष्ट: ) ग्रहो भवति, शीघ्रफलात् संस्कृतो मन्दस्पष्टोऽसकृत् स्पष्टो भवेदर्थान्मध्यग्रहात्पुनर्मन्दफलमानीय तत्संस्कृतो सध्यमग्रहो मन्दस्पष्टो भवेत्त स्मात् (मन्दस्पष्टात् ) पुनः शीघ्रफलमानीय तत्संस्कृतो मन्दस्पष्टग्रहः स्पष्टग्रहं