पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ ब्राह्मस्फुटसिद्धान्ते कृत्वा तन्मदकर्मणि फलं भवति । तस्य फलयोगान्तरवशद्यदधिकं धनमृणं वा तद् भवतीत्यर्थः। शीघ्रकर्मणि तु पुनस्तगुणितात् व्यासार्धात्तेन भुजफलेन व्यासार्थं ताडयित्वा स्वकर्णेन यल्लभ्यते, तस्य चापं फलं भवति । तदपि फलयोगान्तर वशादेव धनमृणं वा कार्यम् । इतिवाक्यशेषः अत्र वासना तद्यथोक्तवत् । कक्षा मण्डलादीनि च विन्यस्य केन्द्रं यदा शून्यं भवति तदोच्चरेखायामेव ग्रह स्थितो भवति । तत्र भुजाभावः ततः प्रतिमण्डलोच्चरेखातः क्रमेण ग्रहे विप्रकृष्टते प्रति मंडलपरिधिं कृत्वा यत्र ग्रह स्थितो भवति तस्य प्रदेशस्योच्चरेखायाश्च यदन्तरं स भुजः असौ प्रथमपदे भुक्तस्य क्रमज्या भवति । तावदुपचीयते यावत्पदांतं तत्र त्रिज्या तुल्या भवति । ततो द्वितीयपदे भुक्तस्य क्रमज्या तावत् ग्रहेण भुक्तं तस्योत्क्रमज्या। तयापचता त्रिज्या भुजज्या भवति । तस्मात् पुनारेखायाः सन्निकर्षो ग्रहो भवति । उरक्रमज्याक्रमेण तावद्यावदर्धचनं तत्र नीचरेखायामेव ग्रहस्तस्मात्तयापि भुजज्या भवति। तृतीयपदे प्रथमपदवत् विप्रकर्षा ग्रहस्य योज्यश्चतुर्थपदे द्वितीयपदवत् सन्नि कv योज्यः, एवं व्यासार्धतुल्ये प्रतिमण्डले स्वनीचोच्चवृत्तेप्येकमतस्त्रैराशिकेन तद् भुजध्यानयनं चतुर्थं पदेषु, प्रदशतमाचार्येण, पदेष्वयुयुक्स्वपरिधिगुणाः क्रमोत्क्रम जीवा भांशैः हृता इति तद्यथा भांशः षष्टिशतत्रयपरिणाहस्येयं भुजज्या,तत्स्वोच्चनीच- परिणाहस्य कियतीति फलं स्वोच्चनीचोच्चवृत्तभुजयया,प्रथमतृतीयपदयोः द्विचतुर्थ पदयोस्तु पुनरनेनैव त्रैराशिकेन नीचोच्चवृत्तभुजज्याज्ञापनाय सिद्धिः ततः क्षय धनकल्पना मन्दोच्चरेखातः कक्षामंडले यावति प्रदेशे राशिभागादिकमध्ये ग्रहस्तत्र मन्दनीचोच्चवृत्तमध्यं विन्यसेत्ततो मन्दोच्चरेखातो यावति प्रदेशकमंडले ततएव प्रतिमण्डलनीचोच्चवृत्तपरिध्योः संपातस्तत्र पारमाथिको अहस्तस्मात् भूमध्यं याव त्सूत्रं नीयते तत्कक्षामण्डलस्थमध्यग्रहात् पश्चिमे नयति यत्र सूत्रेण सह कक्षामण्ड- लस्य संपातस्तत्रस्थितं ग्रहं भूस्थो द्रष्टा पश्यति । अतस्तदनन्तरफलेन नापचीयमानः प्रतिमण्डलस्योपरिस्थितत्वान्मन्दफलं प्रथमे प्रतिमण्डलप्रदेशे क्षयो भवतीत्युपपन्नम्। द्वितीयपदे पुनरध:प्रतिमण्डलस्योपरिस्थितत्वादुपरि कक्षामण्डलं तत्रानेनोपचयविधिना यत्सूत्रं नीयते तत्प्रथमपदोत्पन्नस्यापचयस्यापचयमुत्क्रमेण धनमुदेति अतो यावदेवा पचयस्यापचयस्तावदेव धनमुच्यते । द्वितीये प्रतिमण्डलपदेपि तदप्युपपन्न तृतीयपदेऽपि कक्षामण्डलस्योपरिस्थितत्वाद्यावद् भूमध्यद्यत्सूत्र पूर्ववत् प्रतिमण्डलस्थग्रहमध्येन कक्षामण्डलेन नीयते । तावत् कक्षामण्डले मध्यग्रहचिह्नितप्रदेशात्तत्पूर्वेण भवति । तत्रस्थं ग्रहं पश्यति भूस्थो द्रष्टा ततस्तदनंतरफलेनोपचीयते ग्रहः सोऽत्रापि उपपन्नः यथा द्वितीय पदे क्रमेणापचितमपचयफलम् । एवं चतुर्थपदोत्क्रमेणापचीयते घनफल मतस्तदपचयो यावानुक्रमेण तावदृणं चतुर्युपद इत्युच्यते तदप्युपपन्नं प्रतिमण्डल- स्योपरिस्थितत्वादेवं स्थितानां मन्दफलानां यथासम्भवं योगान्तरं वा ग्रहफलं भवति एवं मन्दनीचोच्चवृत्तभुजज्येव ग्रहफलं। येन कारणेन स्फुटकोटिकर्णेन कृते स्फुट कणत्पन्नभुजकोटिफलस्य च कक्षामण्डलपरिणाहाय राशिकं न कृतं तत्र गोला ध्याये कारणमाचार्येण प्रदशतम् । त्रिज्याभक्तकर्ण इत्यादिकया तया अस्माभि रुपरि तत्रैव परिहृतमिति शीघ्रकमॅणि धनक्षयोत्पत्तिः स्वशीव्रप्रतिमण्डले स्वरेखातः