पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ ब्राह्मस्फुटसिद्धान्ते इदानीं स्पष्टपरिध्यानयनमाह त्रिज्यहृता भुजज्या युगयुक्परिधिद्वयान्तरगुणाप्त्या । युग्मान्तपरिधिरधिको होने हीनोऽधिके स्पष्टः ॥१३॥ वा. भा.-इदानीं शुक्रमन्दशीघ्रकर्मणोः परिघिसंस्कारार्थमार्यामाह । मन्दोच्चनीचवृत्तस्य परिधिभागाः सितस्य विषमान्ते नवचेत्यादिना ये परिधयः पठिताः मन्दपरिधिप्रथमपदान्ते तृतीयपदान्ते च नवरसयमाः, द्वितीयचतुर्थपदान्तयोरष्टभागाः द्वितीयपदान्ते चतुर्थपदान्ते चैकादशभागाः शीघ्रपरिधिप्रथमतृतीयपदान्तयोरग्निरसयमा भागा। एवं स्थिते चाभ्यन्तरे परिधेः साधनायेदमार्यसूत्रं त्रैराशिकात्मकं तद्यथा त्रिज्याहता कासौ भुजज्या किं भूता, युगयुक्परिधिद्वयान्तरगुणा च शीघ्रकर्मणोरपि ततोऽवाप्तिः तया वाप्त्याधिको युग्मान्तरपरिधिः कर्तव्यः । यदि विषमान्तरपरिधेरूनः । अथ युग्मान्तरपरिधिरधिकस्तदा भागावाप्त्या हीनः कार्यः स मन्दनीचोच्चवृत्तस्य शीघ्रनीचोच्चवृत्तस्य च परिधिः स्फुटो भवति तेन वक्ष्यमाणविधिना फलानयनम्। अत्र मन्दप्रतिमण्डलोच्वप्रदेशे नीचोच्चवृत्तस्यैकादशकः परिधिः तत्क्रमेणोपचीयते। यावत्प्रथमं पदान्तं तत्र नवपरिधिः। तथा तत्र फलोपलब्धैस्ततः परं पुनरप्यपचीयते । यावत्प्रतिमण्डलार्धचक्रं तत्रैकादशको मन्दनीचोच्चपरिधिरुच्चप्रदेशवत्तत्रापि तथैव फलोपलब्धेः प्रथमद्वितीयपदयोस्त्रिचतुर्थपदे व्याख्याते । अथवान्तरे त्रैराशिकं यदि भुजज्या त्रिज्या यत्र तत्र परिध्यन्तरं द्वौ यत्र चेष्टौ भुजज्या तत्र किमिति लब्धेन युग्मान्तपरिधिरपचीयते । क्रमेण विषमान्तेन भविष्यन्ति । एवं शेषपदेषु भन्दकर्मणि योज्यं । शीघ्रकर्मणि परिधिसंस्कारो विपरीतः वासनावैपरीत्यात् तत्र यदि भुजज्यया त्रिज्यया तुल्यया पंचभागाः परिधिरन्तरं तदेष्टभुजज्यया किमिति फलेनोपचीयते । युग्मान्तरं परिधियंत्रोपचयक्रमेण विषमान्तेऽग्निरसयमलसंख्यो भविष्यति, तथा स्थिते एतत् गोले छेद्यके वा प्रदर्शयेत् । एवं शुक्रस्य मन्दनोचोच्चवृत्तशीघ्रनीचोच्चवृत्तयो परिधी संस्कार्यो बुधगुरुशनीनां वक्ष्यमाणं यथा पठिता एवं परिधयः स्फुटाः मन्दशीघ्रयोरपि कुजस्यापि मन्दपरिघिर्यथाः पठिता तच्छीघ्रपरिवेरपि संस्कारं वक्ष्यति शीघ्रस्फुटपरिधिनाप्तभागोना वेदजिनाः अंशोना इति स तथा एव स्फुटो भवति । इदानीं इष्टस्फुटः परिधिनाप्ता भागोना वेदजिना अंशौ, पूर्वानीतभुजकोटिभ्यां च भूमध्यप्रतिमण्डलस्थपारमार्थिक ग्रहान्तरकरणभुजकोटिज्ये क्रियेते तत्करणमार्ययाह ।

वि. भा.–धुजज्या (केन्द्रज्या) युगयुक्परिधिद्वयान्तरगुणा (समविषमपदान्तपरिध्योरन्तरेण गुण) त्रिज्याहृता (त्रिज्याभक्ता) आप्त्या (लब्ध्या) युग्मान्तपरिधिः (समपदान्तपरिधिः) अधिकः कार्यो विषमपदान्तपरिधेः समपदान्तपरिधिमानेऽल्पे सति अधिके (विषमपदान्तपरिधेः समपदान्तपरिधिमानेऽधिके) लब्ध्या समपदान्तपरिधिर्हीनः कार्यस्तदास्पष्ट: परिधिर्भवेदिति ॥१३॥