पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ ब्राह्मस्फुटसिद्धान्ते द्वितीयस्यां दिशि तावत्येव प्रतिमण्डलपरिधेः भागे बध्नीयाथ् । तदधभुजज्या तस्य सूत्रस्य स्वोच्चशलाकया सह यत्र संपातस्तस्य प्रदेशस्य प्रतिमण्डलमध्यस्योच्चान्तरं कोटिज्या तदु दक्षिणोत्तरज्य भुञ्ज्योच्यते । अतएव प्रतिमण्डले प्रथमप्रदेशच्च- शलाकासंपाताद्यदुग्रहेण भुक्तं तस्य भुजया यच्च पदशेषं तस्य कोटिज्या द्वितीये पदे वाघोगा कोटिज्य, पारवंस्था भुजज्या तस्मात्तत्र प्रतिमण्डलार्धवक्रादधिकं यद्भुक्तं तस्य भुजज्या पार्श्वस्था भवति । शेषस्याधोगा कोटिज्या भवति, द्वितीयपद वासनायां एवं चतुश्चत्रदाल् यच्छेषं तस्य पार्श्वस्था भुक्तस्य कोटिज्यार्धचक्रे स्थिता, प्रथमपदवासनयैव प्रदर्शयेत् ।१२। वि. भा.-मध्यमग्रहम्म न्दोच्च विशोध्य शेषं मन्दकेन्द्रम् । शीघ्रोच्चमध्यम (मन्दस्यष्ट) ग्रहं विशोध्य शेषं शत्रकेन्द्रम् । अयुजि (विषम) पदे गतयेययोः (गतगम्ययोः) चापयोर्बाहुकोटिज्ये (भुजकोटिज्ये) साध्ये, अर्थात् गताद् भुजज्या, गम्यात्कोटिज्या साध्या, युजि (समे) पदेऽतोऽन्यथाऽर्थाद् गम्याद्र भुजया, गताको टिज्या साध्येति ।१२। अत्रोपपत्तिः अथ भूकेन्द्रान्मन्दप्रतिवृत्तस्य शीघ्रप्र तिवृत्तस्य च यो हि दूरतरप्रदेशऽर्थादु च्चरेखा (वर्धतभूकेन्द्रग्रहगोलकेन्द्रगतरेखा) मन्दप्रतिवृत्तसम्पातस्तथोच्चरेखाशीघ्र प्रतिवृत्तसम्पातश्व मन्दोच्चं शीघ्रोच्चं चेति, मन्दप्रतिवृत्ते यत्र गणितागतो मध्यमग्रहोऽस्ति भूकेन्द्रात्तद्गता रेख शीघ्रप्रतिवृत्ते यत्र लगति तत्र मन्दस्पष्टग्रहः । मन्दोच्चमध्यमग्रहावधिमन्दप्रतिवृत्ते मन्दकेन्द्रसंज्ञकम् । शोघ्रोच्चान्मन्दस्पष्ट ग्रहावधिशीघ्रप्रतिवृत्ते शीघ्रकेन्द्रसंज्ञकम् । मध्यमग्रहगतितो मन्दोच्चगतेरल्पत्वात् मध्यमग्र-मन्दोच्व=मन्दकेन्द्रम्, तथा शत्रोच्चगतेर्मन्दस्पृष्टग्रहगतैरल्पत्वात् शोघ्रोच-मन्दस्पग्र= शीघ्रकेन्द्रम् । ग्रहगोलकेद्रादुच्चरेखोपरि लम्बरेखा कार्या तदेताभ्यां रेखाभ्यां मन्दप्रतिवृत्तस्य समानि चत्वारि खण्डानि नवत्यंशमितानि भव न्ति, उच्चरेखातः (उच्चबिन्दुतो वा) सव्यक्रमेण चत्वारि पदानि कल्पानि, प्रथमपदे मन्दप्रतिवृत्ते यत्र ग्रहस्तस्योच्चरेखायाश्चान्तरं भुजज्या। ग्रहात्तियंग खो (मन्दगोल केन्द्रादुच्चरेखोपरिलम्वरेख) परिलम्बरेखा भुजकोटिज्या, यथा-यथा ग्रह पदान्ता भिमुखो गच्छेत्तथा तथा भुजज्योपचीयते, भुजकोटिज्या चापचीयतेपदान्ते भुजज्या परमा त्रिज्या समा भुजकोटिज्यायाश्चभावः ततोऽग्रे द्वितीयपदे ग्रहो यथा-यथाऽग्रतो गच्छति तथा-तथा भुजज्याऽपचीयते, भुजकोटिज्योपचीयते द्वितीयपदान्ते भुजज्याऽ भावःभुजकोटिज्या च परमा त्रिज्या समा भवत्यतोऽयुजि गतयेययोर् जि पदेऽन्यथा बाहुकोटिज्ये इत्याऽचायोक्तं युक्तियुक्तं संगच्छते तृतीये चतुर्थे पदेऽप्येवमेव विचारः कार्यः। सूर्यसिद्धान्ते ग्रहं संशोध्य मन्दोच्चात्तथा शीघ्राद्विशोध्य चेत्यादिना, मध्यम