पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१५७

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
ब्राह्मस्फुटसिद्धान्तः
स्पष्टाधिकारः

तत्रादौ स्फुटीकरणस्य प्रयोजनमाह

यस्मान्न मध्यतुल्यः प्रतिदिवसं दृश्यते ग्रहो भगणे।
तस्माद् दृक्तुल्यकरं वक्ष्ये मध्यस्फुटीकरणम् ॥१॥

बा.भा.– अथ स्फुटगत्यध्यायो व्याख्यायते । तत्रारम्भप्रयोजनमाह । यस्मान्मध्यग्रहेण तुल्यः दृग्विषये ग्रहो न दृश्यते भगणे नक्षत्रचक्र प्रतिदिवसं दिवसे दिवसे तस्मात् स्फुटोकरणं वक्ष्ये । मध्यस्थ कीदृगित्याह दृक्तुल्यकरमभिप्रायो- मध्यमो ग्रहः कक्षामण्डले परिकल्पते । न च कक्षामण्डले पारमाथिको ग्रहः प्रति मण्डले मध्यभुक्त्या भ्रमति । यस्माद् दृश्यते कक्षामण्डलेऽतोऽहं दृक्स्फुटीकरणं वक्ष्ये येन प्रतिमण्डलस्थो ग्रहः कक्षामण्डले दृक्तुल्यो दृश्यते इत्यर्थः, एतत्सर्वं कक्षामण्डलं प्रतिमण्डलनीचोच्चवृत्तादीनि विन्यस्य गोले छेदके च प्रदर्शयेत् । मया च पूर्वमेव गोलाध्याये प्रदशित मिति। वि. भा.-यस्मात्कारणात् प्रतिदिवसं (प्रतिदिनं) भगणे (शान्तिवृत्ते) ग्रहः (पारमाथिकः स्फुटो वा ग्रहः) मध्यतुल्यः (मध्यमेन ग्रहेण समः) न दृश्यते (नावलोक्यते), तस्मात्कारणात् दृक्समकारकं स्फुटीकरणं वक्ष्ये, अत्रैतदुक्तं भवति मध्यमो ग्रहः कक्षावृत्तं परिकल्पितः, नहि कवृत्ते पारमाथिको ग्रहः प्रतिवृत्ते मध्यगत्या भ्रमति किन्तु स्पष्टगत्या प्रतिवृत्ते परिभ्रमन् कक्षावृत्ते दृश्यते, अतो येन गणितेव कक्षावृत्ते प्रतिवृत्तस्थो ग्रहो दृक्समो भवेतादृशं स्फुटीकरणमहं वक्ष्ये इति ।।१।। हि. भा.जिस कारण से प्रत्येक दिन क्रान्तिवृत में स्पष्ट ग्रह मध्यम ग्रह के बरा बर नहीं देखे जाते हैं उस कारण से दृतुल्य (दृग्गणितैक्य) कारक स्पष्टीकरण को में ब्रह्मगुप्त) कहता हूं, यहाँ यह कहा जाता है कि कक्षावृत्त में मध्यम ग्रह परिकहैिपत प्रतिवृत्त में स्पष्टगति से भ्रमण करते हुए ग्रह कक्षावृत्त में देखे जाते हैं इसलिए जिस गणित से कक्षावृत्त में प्रतिवृत्तस्थत ग्रह दृक्सम होते हैं उस स्पष्टीकरण को मैं कहता हूँ।।१॥ इदानीं स्पष्टीकरणादिसर्वग्रहगणितानां ज्यागणिताऽधीनत्वात्प्रथममर्ध- ज्यामुक्त्वोत्क्रमज्यामाह अयंज्या मनुयमला सुनियमवेदा वसुज्वलनषकः । रसकृतवसवः शशिपवन्द्वश्चन्द्रशरसूर्याः ॥२॥