पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ ब्राह्मस्फुटसिद्धान्ते इदानीं चैत्रसितादिना सावनेनाखण्डेनाहर्गणेन ग्रहानयनचिकीर्ष रादौ तावच्चैत्राद्यकोदययोरन्तरपरिज्ञानार्थमार्यामाह शुद्धीशवधे शुद्धेऽवमशेषात्सावनद्युगणसिद्धिः। व्येकवमं गृहीत्वा गुणखमुनियुतान्न शुद्धिश्चेत् ।५८। वा. भा.-शुद्धेरीशानां च वधः श्रीशवधस्तस्मिन् शुद्धे सति कुत इत्याह, अवमे यद्यपि सामान्येनवमशेषग्रहणं तथापि रविमण्डलान्तावमशेषत् अवमांशेभ्यो यमनव रसगुणितेभ्यो विकृतेभ्यः स्वच्छेदेन यत्फलं भवति, तस्मादित्यर्थः। एवं कृते शेषं यत्सावनद्युगणशुद्धिश्चैत्रादावमशेषं भवतीत्यर्थः अथ। रविमण्डलान्तावमशेषादेका दशगुणशुद्धिर्न शुध्यति, तदा व्येकावमं य्हीत्वा गुणखमुनियुतात्पूर्वमेवावमानि यान्यतीतानि । नवाग्निसप्तनगैः कल्पगताब्दान् संगुणय्य खखरसनवभिर्वभज्य तेभ्यो रूपमेकं विशोधयेद्रविमण्डलान्तावमशेषं च गुणखमुनियुक्तं कृत्वा ततः शुद्धीशवधं विशोध्य चैत्राद्यवमशेषं भवति, तत्रेयं वासना रविमण्ड लान्ताद्वैपरीत्येन चैत्रादर्कोदयेऽवमशेषं क्रियते तत्र शुद्धिरेव चैत्रादकदयरविमण्ड लान्तरं भुः । तत एकैकस्मिन्सावनदिने चन्द्रदिनेन सहन्तरमेकादशसंख्यमवमशेषमतः शुद्धतुल्यैःसायनदिनै शुद्ध एकादशगुणायां तुल्यमवशेषं भवति । अतो रविमण्डलान्ता वमशेषाद्विशोध्य शेषं चैत्राद्यकोदयेऽवमशेषं भवति सैव सावनद्युगणसिद्धिर्भवति । यस्मात् तत्र दिने तावदेवान्तरं चैत्राञ्चक्रुदययोरथैकादशगुणशुद्धिर्न शद्धयति । रविमण्डलान्तावमशेषात्तदा चैत्रादिरविमण्डलान्तयोरंतरं एवोनरात्रयातो ज्ञेयोऽतः पुनरथावमगणपदवम संगृहीत्वा रविमण्डलान्तिके त्रिखमुनिसंख्यं योज्यते । यस्मात् त्रिखमुनिसंख्येऽवमशेषेणोनरात्रो भवति । अत उक्तमेकावमं गृहीत्वा गुणखमुनि युतान्न शुध्यति वोदितः किन्त्वत्र तद्विगुणाब्दयोगादिति क्रियमाणे शुद्धिरणैकोना भवति, सानैकादशगुण विशोध्यते, इत्युपपन्नम् ।। ५८ ।। वि. भा.-शुद्धेः ( पूर्वपरिभाषितायाः ) ईशानां ( एकादशानां ) च गुणनफलेऽवमशेषात् (रविवर्धन्ते साधितावमशेषान्) ६६२ गुणितादेभिः (६६००) भक्ताच्छुडे ‘हृतास्त्रिखागैः फलावमविहीना' इत्यादिना चैत्रादौ सावनाहर्गण सिद्धिर्भवति, यदि शुद्धेरेकादशस्य च गुणनफलस्यावभशेषाच्छोधनं न भवेत्तदा रविवर्धन्ते कल्पतो यान्यवमनि तान्येकरहितानि गृहीत्वा ७०३ युतादवमशेषा तद्गुणनफलं शोध्यमिति ॥ । ५८ ॥ अत्रोपपतिः चैत्रादितिथिः =० तदा विपरीतशोधनेन चैत्रादिगत-शुद्धि=शुद्धि-तदा .६६२ वक्षयशे 'अवमांशेभ्यो यमनवरसगुणितेभ्य इत्याद्याचार्योंबत्या' ऽवमशेषस्वरूपम् &६०० ७०३