पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

B00 बलसिविल्यास्या स्मिादिदुःखामङ्गानामशिवानामकल्याणानामुपशमात् , परमस्य चानन्दाख्य शिवस्य च भावात. पुरुषार्य आप्तो भवतीति । दुःखोपशमसुखे प्रत्येक मसंपूर्णवन्यत्र पुरुषार्थे ; इह तूभयमपि ; अतः पूर्ण इत्युक्तम् । परस्या मुत्तरकालिक्यां हानोपादानादिप्रवृत्तावङ्गत्वात्प्रत्यक्षादीनां प्रामाण्यमिति चेत्, एवं तर्हि शब्दानममिते ब्रह्मणि तसाक्षात्करणायोपासनादिप्रवृद्धेर्वेदान्तजज्ञानस्य तदङ्गत्वे इष्यतामपुरुषार्थानां वेदान्तानां प्रामाण्यमिति भावः । इतिः ग्रन्थकरणपरिसमाप्त । इति श्रीब्रह्मसिद्धिव्यारूपाने शलपाणिकृते चतुर्थ(सिद्धि)काण्डत्याख्यानं समाप्तम् ॥ ॥ । ब्रह्मसिद्धिव्याख्यानं समाप्तम् ।। ।