सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= - - - - - - ननु कर्मक्षयस्य विधाकार्य कार्यत्वात् घटवत् अन्तवश्वं स्यात् ; अतश्च पुनः कर्मप्रादुर्भावात् मुक्तस्य पुनर्बन्धः स्यादित्याशयाह--एवमिति । न हि घटध्वंसो विनाशी, घटस्य पुनः प्रादुर्भावादीनादिति भावः । एवं परमतमुपन्यस्य दूषयति-तत्रेति । प्रायश्चित्ते या न्यायद्दिक् तया । बन्धहेतोः कर्मण उच्छेदः क्षयो न भवति ; यतः सर्वाबिद्याम्- विलये छेत्रं कर्म नावशिष्यत इति । तत्र हेतुमाह-बन्धेति । बन्धहेतुः कर्म अविद्योपादानत्वात् अविद्याखभावम् । तत्र विद्यायां सत्यामविद्या कात्स्न्येन प्रणष्टा । तेनाविद्यानिवृत्यैव तदात्मबन्धहेतुरपि निवृत्त इति न पृथकू छेद्यमवशिष्यत इत्यर्थः । विद्योत्पत्तिरेवाविद्यात्मकबन्धहेतुनिवृत्तिः । अतो न सा तत्साध्येति भावः । वृत्तिः स्पष्टार्थं । अविद्योच्छेदेन कमच्छेदे लिङ्गं दर्शयति यतनेति । अविद्योच्छेदने उच्छिब मानाभ्य संशयविपर्ययाभ्यां सह कर्मणाम् + भिद्यते हृदय ग्रन्थिः ” इत्यत्र संख्यानमविद्योच्छेदेन तेषामुच्छेदं सूचयतीत्यर्थः । हृदयग्रन्थिर्विपर्ययोऽभिप्रेतः । अत्र चोदयति-नन्विति । अत्र दोषमाह--तस्येति । उत्पन्नज्ञानस्य तावदेव चिरं कालविलम्बो यावद् देहेन विमोक्ष्यते । छान्दसस्तकारलोपः । अय देहविमोक्षानन्तरं बल संपत्स्यत इत्यर्थः । कस्य नामेयं श्रुतिर्न बाध्यते इत्यत्राह--यस्येति । यस्य कर्मक्षयहेतुर्विद्या शालात् गम्यते, तस्य शास्त्रानुसारेण केषांचित्कर्मणां विद्यया क्षयः , केषांचिदुपभोगेनेति व्यव- स्थोपपद्यत इत्यर्थःशास्त्रानुसारमाह तत्रेति ; तस्मिन् पक्ष इत्यर्थः । तत इति; विद्यत इत्यर्थः। अविशेषेणोत्सर्गतो विद्यया सर्वकर्मक्षयप्राप्तौ स मुक्तेर्देहपाता वषित्वभृत्यापोद्यत इत्यत्र हेतुमाह--न हीति । कर्मणां विद्यया सर्वेषां क्षये विद्योदयानन्तरमेव मुक्तिः स्यात्; अतो देहपातप्रतीक्षा नोपपद्यत भूयते चासौ । अतः केषांचित् कर्मणां भोगेन क्षय इति गम्यत । इत्यर्थः । आचार्यजुष्टश्चायं मार्ग इत्याह--तदुक्तमिति । अनारब्धकार्ये अप्रवृत्तफले वर्तमानदेहानारम्मके पुण्यपापे पूर्वापात्ते " विद्यया क्षपयित्वा, 17