M१ - ( । 198-10 नपेक्षत्वमाह । देशविशेष: आदित्यमण्डलं स्वरूपं च हिरण्मयादि । ननु परब्रह्मण एव देशविशेषो रूपं चोक्तमिति कुतोऽयं गम्यत इत्याह पर इति । श्रुतिमाह-उदित इति । पाप्मशब्देन पुण्यमप्युच्यते; तेन सर्वेभ्यः पुण्यपापेभ्य उदित उत्क्रम्योर्व वा गतः; तैरसंसृष्ट इति यावत् । पुण्यपापासंस्पर्शश्च अन्यत्र धर्मात्’ इति परस्य श्रुतः । तस्मा त्परस्यैवैष देशविशेषो रूपं च श्रुतम् । न च ते तस्य विभोररूपस्य च संभवतः । तेन ध्यान तेन रूपेण विधीयते । तथा सर्वज्ञत्वाद्यपि द्रष्टव्यमिति । तदेवं वरूपाविर्भावलक्षणे मोक्षे मार्गादिश्रुतीस्तद्विरुद्धार्थाः तथा अन्याश्च प्रसङ्गागताः समाधाय तमेव मोक्षे प्रतिष्ठापयति - तदेव- मिति । ब्रह्मात्मन इति ; बच्चैव आत्मा यस्य विदुषः स तथोक्तःतदूपा विर्भाव इत्यर्थः । सा च तस्माप्तिरात्मनो ज्ञानखरूपत्वाद्वियैवेत्याह--सा चेति । एवं स्थिते ‘न च विद्याया ’ इति यदुक्तं तदुप न साध्यो मोक्षो अन्यः संहरति--तस्मादिति । मतान्तरमाशङ्कयति--अथेति । उक्तेऽर्थे प्रमाणमाह--भूयत इति । ननु पाप्ममात्रस्य विद्यया दाहः श्रुतः, न पुण्यस्य तदपि च बन्धहेतुः। अतो नाशेषबन्धक्षयहेतुर्वेिवेत्याशङ्कयाह-पाप्मेति । अत्र हेतुमाह सावद्यति । सावधं सदोषं फलं यस्येति विग्रहः । संसारा दोषश्च नुवन्घित्वं पतनादिहेयवश्वं च । पाप्मशब्देन पुण्यमप्युच्यत इत्यत्रार्थे हेत्वन्तरमाह-। सुकृतदुष्कृतोपक्रमः पाप्मशब्दस्तत्र द्वयोरपि -अन्यत्रेति तयोर्वर्तते यत इत्यर्थः । यदि च कर्मक्षयमन्तरेण मोक्षः स्यात् ततो नासै साध्येत ; न चैतदस्तीत्याह-न चेति । फलैकविनाश्यत्वात् कर्मण नादत्तफलस्य निवृत्तिः ; अतः कथं विद्यया तक्षय इत्याशङ्कयाह- प्रायश्चित्तानामिति । गोवधादिदोषसंयोगेन प्रायश्चित्तान्याम्नायन्ते ; न च तन्निमित्तमात्रमित्युक्तम् । अतो दोषक्षयहेतुत्वमेषां गम्यते । तेन प्रायश्चित्ते नादत्तफलमेव पापं कर्म क्षीयते । तथा विद्यया बन्धहेतुकर्मक्षय इत्यर्थः ननु बन्धहेतुकर्मक्षयजेत् विद्यासाध्यो न तार्ह विद्याते मुक्तिरित्या- शङ्कयाह-सैवेति । एवं च वरूपाविर्भावो मोक्ष इत्यपि प्रत्युकम् ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९३
दिखावट