सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदन्वौ पुरोडाशौ” इत्युपक्रमात् “उपांशुयाजमन्तरा यजत्यजामित्वाय । इत्युपसंहाराच्चैकवाक्यत्वे अवगते तन्मध्यवर्तीनि “विष्णुरूपांशु यष्टव्यः ’ इत्यादीनि वचांसि वाक्यभेददोषात् पृथग्विधत्वमलभमानान्युपांशुयाजशेषः त्वात् , तदानुगुण्येन ‘ईदृशोऽयमुपांशुयाजो महाभागो यरिमन्निज्यमाने विष्ण्वादयोऽपीष्टा भवन्सि’ इत्येवमुपांशुयाजस्तुत्यर्थतया व्यवतिष्ठन्ते, तथा सृष्टिश्रुतयो वाक्यार्थभूतसृज्यमानप्रपञ्चभेदप्रतिपत्तिपराः । यत एकत्वेनैवो पक्रमोपसंहारौ सर्वत्र श्रुतौ, येन च तौ श्रुतौ स एव वाक्यार्थःयश्च वाक्यार्थः स एव प्रधानम् , यच्च प्रधनं तदर्थमेवान्यद्युक्तम् । अफलं च भेदज्ञानम् । आत्मैकत्वज्ञानं तु दृष्टेन च शोकादिनिवृत्तिफलेन फळ वत् । अतः “ फलवत्संनिधावफलं तदङ्गम् ’ इति न्यायेनाप्यैकाम्यपरत्वं सृष्टिश्रुतीनाम् । तत्र विशुद्धेत्यादिना फलस्य दृष्टत्वमुक्तम् । “ तत्र को मोहः " इत्यादिना श्रुतत्वमिति विवेकः । सर्गभृतयः एकरवोपायुतया व्यवतिष्ठन्त इत्युक्तम्, तदुपायत्वं दर्शयति-उपायत्वं चेति । नेदमस- न्मूलमिति कथमसतः सज्जायेत” इति श्रुत्यर्थ उक्तः । अद्वितीयेक- सन्मूलमिति तु " सदेवेदमग्र आसीदेकमेवाद्वितीयम् ” द्वीत श्रुत्यर्थः । नन्वेवं कार्यकारणयोर्मेदात् कथमात्मैकत्वमित्याशङ्कयाह-कारणेति । स्यादेवं यदि तयोर्यतिरेकः स्यात् ; स एव तु नास्ति ; ‘मृदयं घटः इत्यभेदप्रतीतेरिति भावः । इदमिति ; जगदित्यर्थः । अत्र दृष्टान्तमाह-- घटादीति । यथा मृदूषेण घटादीनामेकत्वम् , एवं सर्वेषेण जगत इत्यर्थः। ननु यदि सन्मूलं जगत् ततो मुख्य एव कार्यकारणभाव उक्तः स्यात् । अतश्च प्रपञ्चसत्यता । तत्र चाहैतद्वनिरित्यभिप्रायेण चोदयति नन्विति । परिहरति -नेति । एतत्प्रपञ्चयति -न वल्विति; एकत्वावतारो पायत्वं तदुक्तम् विवृणोति । “ मृल्लोहविस्फुलिङ्गाधैः सृष्टिर्या चोदिता भृतैौ । उपायः सोऽवताराय नास्ति भेदः कथंचन ।। " इति । मेदाभिनिवेशातिशयात् सहसैवामेदं बोदुमशक्तः सदुपादानतया सहूपेणाभिनं जगत् घटादिवन्मृद्वैपेणेति प्रतिबोध्यत इत्युक्तं भवति । ननु