पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

252 बक्षसिडिव्याख्यां अनुरुपन्नाद्यात्मसाक्षात्कारा इति यावत् । अत एव सहसा न मुच्यन्ते, अपितु कार्यब्रह्मलोकं गत्वानन्तरं मुच्यन्ते । “ ते ब्रह्मलोकेषु ’ इत पर मेव ब्रह्मोच्यते ; अतस्तत्प्राप्तिरेवानेन कथ्यते, न कयेबद्दलकप्राप्ति रित्याशङ्कयाह-बलेति । पंगुर बलैकमनवयवं च । अतस्तस्य न वत - नाप्यवयवद्वरेण बहुत्वमत्रकल्पते ; कार्यब्रह्मलोकस्तु यद्यप्येकःतथाप्यवयव बहुवेन तत्र बहुवचनमुपपद्यते ; तेन स एवोच्यते, न परमित्यर्थः । अत्र केचित् ग्रहैकवचद्वहुत्वमविधेयत्वादविवक्षितम् अतः परं प्रचैवात्र ब्रह्मलोकमेत्याहुः; तदयुक्तम्; परान्तकालप्रतीक्षणात्; न हि विदुषां महाप्रलयकाले परब्रह्मप्राप्तिः, अपितु देहपातनन्तरमिति तेषमप्यभिमतम् । तथाच सूत्रम्---"पाते तु ’ इति ।“ लोकशब्दश्च भोगभूम मुख्यो न परब्रह्मणि ! आधारत्वमपि तस्यैव कार्यब्रह्मलोकस्य निवासस्थानात् घटते । तस्मात्कार्यब्रह्मलोकानिर्देश एवायम् । एवं च सति बहुवचनमपि कथंचिदवकल्पत इति तदपि लिङ्गस्थानीयमुक्तमित्यदोषः । तर्वमिदं कर्मादि ब्रस्युपासनादिति; योगशब्देन उपासनामात्रमुच्यते, न तत्वज्ञान मित्युक्तं भवति । अत एव कार्यमद्वालोकनतिः ‘फलम् । अत्रैवाथे । स्मृतिमाह-तथाचेति । गतास्ते सर्वे छतात्मानः --ब्रह्मलोकं संस्कृतबुद्धयः परस्य प्रधानस्य ब्रह्मणोऽन्ते अधिकारसमाप्तौ यदा प्रतिसंचरो महाप्रलयो भवति तदा ब्रह्मणा सह परं पदं प्रविशन्तीत्यर्थः । अन्ये तु अनावृत्ति श्रुतेरिममर्थं मन्यन्ते --यथा कर्मिणो धूमदिमागेण चन्द्रलोकं गतास्ते तत्र पतनकालपर्यन्तं स्थित्वा भुक्त्वा भोगांस्तस्मिन् स्थित एव निवर्तन्ते, नैवं स्थिते ब्रह्मलोके तत्र गतानां तत आवृत्तिः; अपितु ब्रह्मलोकप्रलयपर्यन्तं तत्रैव तिष्ठन्ति । न च वाच्यम्—तथापि तस्मलये तेषामावृत्तेः कथमगा- वृत्तिश्रुतिरिति ; यतस्तस्मिन् सति न तत आवृत्तिर्भवति ; तत्प्रलये तु स एव नास्ति ; कुतस्तत आवृत्तिः ? अत चैवमनावृत्तिः श्रूयते । । यत्र तु 'तत्प्रलये हि तत आवृत्तिः' इति पाठःतत्र ततः प्रलयात् प्रागावृत्ति . नस्त ततश्चनावत्तिः श्रूयत इत्यर्थः । तथात्र इमं मानवम् ” इति इह नावर्तसे" इति इमम् इह' इति विशेषणम् अस्यां संनिहि- तायां वर्तमानसृष्टवनावृत्तिमाह । सर्वथानावृत्तौ दुयजमेतत् । " अमृतत्व येति ” इति चामृतत्वं ये प्राणिनः प्रलयादर्वागेव म्रियन्ते तानपेक्ष्य ।