पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

50 । 3A निर्गुणा च । तत्र मार्गादिश्रुतयो न निर्गुणविद्यविषयाःतत्र हि गति- निषेध एव " बझेव सन् ” इति श्रूयते । ब्रह्मस्वरूपस्यैव ब्रह्मभावं वदन्ती श्रुतिरेषा खरूपस्य तत्रैव देशे सुलभत्वादन्यत्र गतिं निषेधति । तथा “न तस्मात्प्राणाः" इत्याद्या च श्रुतिः तस्माद्विदुषो देहान्न प्राण उत्क्रामन्ति, अपितु अत्रैव समवनीयन्ते प्रलीयन्ते इति वदन्ती विदुषो विज्ञा नारमनो गतिं निषेधति । गत्यर्थश्च मार्गोपदेशः । स गत्यभावे निर्गुण विद्यायामनर्थक इत्याशयः । ननु प्राणानामयं गतिनिषेधो न विज्ञानात्मन इत्याशङ्कयाह--प्राणते । अत्र हेतुमाह-न हीति । यथा बिम्बस्यैवा- दर्शयुपाधेर्बिम्बाद्वेदेन प्रतिबिम्बत्वम्, एवं ब्रह्मण एव प्रायोपाधेः बक्षणो भेदेन विज्ञानात्मत्वम् ; तत्र प्राणानामगमने सस्युपाघेर भावाद्विज्ञानात्मत्वमेव नास्ति; कस्य गमनं भवत्विति अर्थाल्याणगमने विज्ञानात्मन एवागतिरुक्ता भवतीत्यर्थः । अत्राह – न तस्मात्प्राणा उस्क्रामन्ति" इति जीवापादाना प्राणानामुत्कान्तिरनेन निषिध्यते, न देहापादाना । तेनायमस्यार्यः जीवमुज्झित्वा प्राणा नोक्रमन्ति, अपितु जीवेन सहैव देहादुत्क्रामन्तीति । एवं च न तस्य प्राणा उत्क्रामन्ति ” इति शाखान्तरश्रुतिरपि ‘तस्य प्राणाः कुतो नोक्रामन्ति ? किं देहात् ? उत देहिनः ?’ इत्यपेक्षायां "न तस्मात” इति श्रुतिबलात् देहिन इति विशेषे स्थाप्यते । किंच प्राप्ति पूर्वकत्वान्निषेधस्य “तमुत्क्रामन्तं प्राणा अनुक़ामन्ति ” इति देहान्तरग्रहः णायाविदुषो योत्क्रान्तिः श्रुता, स ““न तस्मात्प्राणः ” इस्यनेन विदुषि निषिध्यते, न परब्रह्मप्राप्त्यर्था । तदुक्तम् -‘‘ देहान्तरार्थं योक्क्रान्तिः सा तत्र प्रतिषिध्यते" इति । तेन विदुषोऽप्युत्क्रान्तिरस्तीति परविद्या विषया अपि मार्गश्रुतयः । तथा च तत्प्रकरणेऽपि ताः पठ्यन्त इति । तदिदमसंबडम् ; तथाहि- यद्यविदुषो योक्रान्तिः सा विदुषो निषिध्यते, तर्हि सा देहाच्छूता कथं जीवनिषिध्यते ! अथ देहादेव सक्रान्ति निषिद्धा; किं तु देहान्तरार्थी, न ब्रस्रप्राप्त्यर्थेत्युच्यते ; ततोऽनेन देहान्त- राथंक्रान्तिर्विदुषो निषिद्ध; बलप्राप्त्यर्थं तु केन विहिता ? न तावदने नैव, वाक्यभेदप्रसङ्गात् । न चार्थाक्षेपसिद्धा, विनैव तया देहान्तरो क्रान्तिनिषेघोपपत्तेः, ब्रह्मप्राप्युपपत्तेश्च । । तथाहि--यदन्यत् दूरस्थं च तप्तत्या प्राप्यते । तु जीवस्य निजं रूपं सर्वगतं च; अतो नान्यद् , । १